________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
(मूलम्) दिति तत्तत्वभावतालक्षणः सोऽङ्गीकर्तव्यः । तथा च सति उक्तदोषापत्तिरेवेति सूक्ष्मधिया भावनीयम् ।।
(स्वो० व्या) सिद्धिः तस्य-अधिकृतविज्ञानस्य तयोश्च-ग्राह्यग्राहकसंवेदनान्तरयोस्तद्भावासिद्धिःग्राहकत्वादिभावासिद्धिः । कुत इत्याह-अतिप्रसङ्गात्। अतिप्रसङ्गश्च यथेदमधिकृतविज्ञानमनधिकृतसंवेदनग्राहकं न तथाऽधिकृतसंवेदनग्राहकमपि न, तत्स्वभावत्वलक्षण
सम्बन्धाभावाविशेषात् । एवं तदपि संवेदनान्तरं यथा विज्ञानान्तरग्राह्यं न तथाऽधिकृत१० विज्ञानग्राह्यमपि न, उक्तलक्षणसम्बन्धाभावाविशेषादेव । एवं संवेदनान्तरेऽप्यधिकृतविज्ञानग्राहके योजना कार्या । ततश्च यथा संवेदनान्तरस्य ज्ञानान्तराणां तथाग्रामग्राहकत्वाधभावस्तथाऽधिकृतसंवेदनान्तरादीनामपि । तथाऽप्यधिकृतानां तद्भावान्युपगमे तद्वदनधिकृतानामपि तगोचर एव तद्भावः प्राप्नोतीत्यतिप्रसङ्गः । अतः तत्तत्व
भावतालक्षणः तस्य-अधिकृतविज्ञानस्य संवेदनान्तरयोश्च तत्स्वभावतालक्षणः १५ तत् तद्ब्राहकादिस्वभावं ते च तद्राह्यादिस्वभावे इत्येवम्भूतः सम्बन्धोऽङ्गीकर्तव्यः। तथा च सति-एवं च सति उक्तदोषापत्तिरेव-तबाह्यग्राहकयोः तुल्यता
(विवरणम्) विवक्षितं हि ज्ञानमितरसंवेदनद्वयापेक्षया ग्राह्यं ग्राहकं च तदपेक्षया तु ज्ञानान्तरमेकं
ग्राह्यम् , अन्यत् तु ग्राहकम् ,अतो ग्राहकत्वाद् विलक्षणः सम्बन्धोऽमीषां सिद्ध इति ॥ २० (१०-११) एवं संवेदनान्तरेऽप्यधिकृतविज्ञानग्राह्यग्राहके योजना कार्येति ।
इह क्रमेण बिन्दुकत्रिकं व्यवस्थाप्य यथेदमित्यादेर्योजना कार्यत्ये(त)दन्त्यस्य प्रन्थस्य भावना क्रियते(०००)। तत्र मध्य बिन्दुकं ग्राहकज्ञानमधिकृतशब्दवाच्यमप्रेतनं चैतद् ग्राह्यम् । एतदप्यधिकृतशब्दवाच्यम् । एते च द्वे एवाधिकृत्य यथेदमधिकृतविज्ञानमित्यायुक्तलक्षणसम्बन्धाभावाविशेषादेवेत्यन्तो वृत्तिग्रन्थो भावनीय एव । संवेद२५ नेत्यादिकस्तु योजना कार्येयेतदन्तः प्रथमद्वितीयविन्दुके प्रतीत्य भावनीयः। यतोऽत्र प्रथमबिन्दुकं ग्राहकविज्ञानतया विवक्षितम् , मध्य बिन्दुकं च प्राह्यविज्ञानतयेति ॥
(१५) तत् तद्ग्राहकादिस्वभावमिति । तत्-अधिकृतसंवेदनं तयोः-ज्ञानयोः ग्राहकादिस्वभावम् । एकस्य ग्राहकमन्यस्य च ग्राह्यमित्यर्थः ॥
(१५) ते च तद्ग्राह्यादिस्वभावे इति । ते च-द्वे ज्ञाने पुनस्तस्य-अधिकृत३. ज्ञानस्य ग्राह्यादिस्वभावे । एकं ग्राह्यस्वभावम् , अन्यत् तु ग्राहकखभावमित्यर्थः ॥
१ 'तत्स्वखभाव.' इति उ-पाठः। २ 'सम्बन्धाविशेषात्' इति उ-पाठः। ३ 'भावं चैत(?) ग्राह्यादि.' इति ङ-पाठः । ४ 'मन्थभावना' इति च-पाठः। ५ 'कृत्य शब्द०' इति चपाठः ६ 'कृत्य शब्द' इति ख-च-पाठः।