________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) सत् तत् संवेदनान्तरग्राह्यमिति चेत्, न, तस्योभयरूपतापत्तेः। न हि तद् येनैव स्वभावेन ग्राहकं संवेदनान्तरस्य तेनैव ग्राह्यम् , सर्वथा तदेकत्वे तद्राह्यग्राहकयोस्तुल्यतापत्तिः, तत्सम्बन्धिखभावकत्वा- ५ न्यथाऽनुपपत्तेः, सम्बन्धमन्तरेण तत्तभावासिद्धिः, अतिप्रसङ्गा
(स्वो० व्या०) तदभावप्रसङ्गतः प्रतीत्यादिबाधा इति । ग्राहकमेव सत्-भवत् तत्-विज्ञानं संवेदनान्तरग्राह्य-विज्ञानान्तरग्राह्यम् । इति चेत्, एतदाशङ्याह-न, तस्यविज्ञानस्य उभयरूपतापत्तेः। आपत्तिश्च न यस्मात् तत्-विज्ञानं येनैव १० खभावेन आत्मसत्ताख्येन ग्राहक संवेदनान्तरस्य-विज्ञानान्तरस्य कर्मरूपस्य तेनैव ग्राह्य संवेदनान्तरस्येति युज्यते । कुत इत्याह-सर्वथा-सर्वैः प्रकारैः तदेकत्वे तयोः-स्वभावयोरेकत्वे । किमित्याह-तबाह्यग्राहकयोः तस्य-विज्ञानस्य ग्राह्यग्राहकयोः संवेदनान्तरे तयोरित्यर्थः । तयोः किमित्याह-तुल्यतापत्तिः । कथमित्याहतत्सम्बन्धिस्वभावकत्वान्यथाऽनुपपत्तेः तयोः-ग्राह्य-ग्राहकयोः संवेदनान्त-१५ रयोः सम्बन्धिखभावकत्वं तद्ग्राह्यग्राहकत्वेनाधिकृतविज्ञानस्य तदन्यथाऽनुपपत्तेरिति । एतद्भावनायैवाह-सम्बन्धमन्तरेण एषां ग्राहकत्वादिस्वभावलक्षणं तत्तद्भावा
(विवरणम् ) (१३-१४) ग्राह्य-ग्राहकयोः संवेदनान्तरे इति । विवक्षितं हि ज्ञानमेकस्य संवेदनस्य ग्राह्यम् , अन्यस्य च ग्राहकम् । ततश्च तद् येनैव स्वभावेन ग्राह्यं तेनैव यदि २० ग्राहकमित्यङ्गीक्रियते तदा नियमाद् ग्राह्य-ग्राहकयोर्विज्ञानयोरैक्यमायाति, अन्यथा विवक्षितज्ञानस्यैकस्वभावत्वाभावात् ॥
(१५-१६) संवेदनान्तरयोः सम्बन्धिस्वभावकत्वमिति । ग्राह्यग्राहकलक्षणे ये संवेदनान्तरे तयोः सम्बन्धि यत् स्वभावकत्वं विवक्षितज्ञानस्य । केन हेतुनेत्याह-- (१६) तद्ग्राह्यग्राहकत्वेनाधिकृतविज्ञानस्येति । तयोः-ज्ञानान्तरयो वैकस्य २५ ग्राहकं वा परस्य तग्राह्यग्राहकं तस्य भावः-तत्त्वं तेन कृत्वाऽधिकृतविज्ञानस्य यत् संवेदनान्तरयोः सम्बन्धि स्वभावैकत्वम् ॥ . (१६) तदन्यथाऽनुपपत्तेरिति । तस्य-स्वभावैकत्वस्यान्यथा-अन्येन प्रकारेण ग्राह्यग्राहकज्ञानयोरेकत्वाभावलक्षणेनानुपपत्तेः-अघटनात् । अयमत्र भावः-विवक्षितज्ञानस्य ग्राह्यग्राहकसंवेदने प्रतीत्य यत् स्वभावैकत्वं तत् तयोरेकत्वाभावे न ३० घटत एवेति ॥
(१७) सम्बन्धमन्तरेणैषां ग्राहकत्वादिस्वभावलक्षणमिति । अत्रैषां-ज्ञानानां १ 'पत्तेः' इति ङ-पाठः। २ पत्तेस्तथाऽर्थग्राह्य ०' इति क-पाठः । ३ 'चैकस्य' इति चपाठः। ४ 'कृताधिकृत.' इति च-पाठः। ५ 'ग्राहके संवेदने' इति क-पाठः ।