________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
न ततोऽपि न बाह्य(?ह्यार्थ)सिद्धिरित्यवहितैर्भावनीयम् ॥ ___ इतश्च बाह्यार्थसिद्धिः, विज्ञानमात्रस्यैवायोगात्, विकल्पानुप५ पत्तेः । विज्ञानं हि ग्राह्यरूपं वा स्याद् ग्राहकरूपमुभयरूपमनुभय
रूपम्, प्रकारान्तरासम्भवात्। तत्र ग्राह्यरूपत्वे सकलविज्ञानानामेव रूपान्तराभावादेकखभावत्वाद् ग्राहक विज्ञानानुपपत्तेः ग्राह्यरूपत्वायोगात् निमित्ताभावादतिप्रसङ्गापत्तेस्तदभावप्रसङ्गतः प्रतीत्यादिबाधा॥ १० ग्राहकरूपत्वेऽप्यभिधानान्तरेणाप्यस्यैवानुवृत्तेरिति । ग्राहकमेव
(स्यो० व्या०) अन्यच्च भ्रान्तं न ततोऽपि-स्वप्नविज्ञानात् न बाह्यार्थसिद्धिः, किन्तु बाह्यार्थसिद्धिरेव कर्माविलचित्तजत्वेन तद्भिन्नकर्मसिद्धरित्यवहितैर्भावनीयमिति ।। ___ अभ्युच्चयमाह इतश्च बाह्यार्थसिद्धिरित्यादिना। कथमित्याह-विज्ञानमात्र१५ स्यैव-केवलस्य अयोगात् । अयोगश्च विकल्पानुपपत्तेः । एनामेवाह-विज्ञानं हि ग्राह्यरूपं वा स्यादेकान्तेन ग्राहकरूपमुभयरूपमनुभयरूपं वेति विकल्पा एतावत एव, प्रकारान्तरासम्भवात्। किञ्चातः? सर्वथाऽपि दोष इत्येतदाह तत्रेत्यादिना । तत्र ग्राह्यरूपत्वे विज्ञानस्यैकान्तिके किमित्याह-सकलविज्ञा
नानामेव अण्वादिरूपवद् रूपान्तराभावात् । अभावश्च एकस्वभावत्वात् । २० यदि नामैवं ततः किमित्याह-ग्राहकविज्ञानानुपपत्तेः । यद्येवं ततः किमित्याह
ग्राह्यरूपत्वायोगात् । अयोगश्च निमित्ताभावात् , सम्बन्ध्यभावादित्यर्थः । तदभावेऽपि ग्राह्यरूपत्वाभ्युपगमेऽतिप्रसङ्गापत्तेः-ग्राहकरूपत्वापत्त्या तदभावप्रसङ्गतः-ग्राह्यरूपत्वाभावप्रसङ्गतः । किमित्याह-प्रतीत्यादिबाधा उभयाभावेन । 'आदि'शब्दात् तदभ्युपगमग्रहः ॥ २५ ग्राहकरूपत्वेऽपि ज्ञानस्यैकान्तेनाभ्युपगम्यमाने किमित्याह-अभिधानान्तरेणास्यैव-अनन्तरोदितस्य अनुवृत्तेः कारणात् प्रतीत्यादिबाधेति । इह चाभिधानान्तरयोजनैवं कार्या-तत्र ग्राहकरूपत्वे सकलविज्ञानानामेव रूपान्तराभावादेकखभावत्वाद् ग्राह्यविज्ञानानुपपत्तेः ग्राहकरूपत्वायोगानिमित्ताभावादतिप्रसङ्गापत्तेः
(विवरणम्) ३० (१२) अन्यच्च भ्रान्तमिति । अन्यदपि यद् भ्रान्तं ज्ञानं मृगतृष्णिकादिगोचरं तदपि कर्माविलचित्तजमेव । वृत्तिकृता सुखावबोधाय सूत्रनिरपेक्षमुक्तमिति । १'धानान्तरेणैवानुवृत्तरिति' ग-पाठः । २ 'अन्यत्वभ्रान्तिमिति' इति च-पाठः ।