________________
अधिकारः] स्योपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) प्रभूतबुद्धानां वा स्वरूपभेदेऽपि चित्तमात्राद् भ्रान्तेतरभेदाभाव इति बाह्यार्थसिद्धिः । इयं चैवमर्थतोऽसकृदुक्तैवाभिनिविष्टस्त्वत्र पर इति पौन:पुन्येनोच्यते ॥
एवं स्वमविज्ञानमपि जाग्रद्विज्ञानविजातीयम् , आविलयोधवद्, भूयस्तथादर्शकत्वेऽपि स्वमिथ्यात्वावसायहेतुः प्रवृत्तिनिवृत्तिकृदाविद्वदङ्गनादिसिद्धमनुभूतदृष्टादिनिमित्तं भ्रान्तमेव । न तन्निदर्शनात् तद्विजातीयमपि सर्व तथा भवितुमर्हति। न च तदपि चित्तमात्रोद्भवम् , वुद्धादीनामसम्भवात् , अपि तु कर्माविलचित्तजमेव । १०
(स्वो० व्या०) कस्यचिदेकस्य प्रभूतबुद्धानां वा सन्तानभेदेन स्वरूपभेदेऽपि सति व्यत्त्यपेक्षया चित्तमात्रात् केवलात् भ्रान्तेतरभेदाभावः बोधमात्राविशेषात् इतिएवं बोधाद् भिन्नकर्मभावेन बाह्यार्थसिद्धिः। परिभावनीयमेतत् इयं च-बाह्यार्थसिद्धिः एवम्-उक्तनीत्याऽर्थतः-सामर्थ्येन असकृदुक्तैवेहैव ग्रन्थेऽभिनिविष्ट-१५ स्त्वत्र-बोधमानतत्त्ववादे पर इति कृत्वा पौनःपुन्येन उच्यते बाह्यार्थसिद्धिः॥
एवं स्वप्नविज्ञानमपि जाग्रद्विज्ञानविजातीयम् । किंविशिष्टमित्याहआविलबोधवत्-अस्पष्टबोधवद् भूयस्तथादर्शकं-प्रायः पुनस्तथादर्शकं यथा सकृद् दृष्टमिति क्वचिद् दर्शकत्वेऽपि द्विस्तथा स्वप्नदर्शने खमिथ्यात्वावसायहेतुः प्रबुद्धविज्ञानतस्तथोपलब्धेः प्रवृत्तिनिवृत्तिकृत्-प्रवृत्तिनिवृत्तिकरणशीलं २० ततः प्रवृत्त्यसिद्धेः आविद्वदङ्गनादिसिद्धं स्वप्नविज्ञानमेवम्भूतमनुभूतदृष्टादि
"अहूयदिवि (१चिं)ति(अ)सुअगइविगारदेवयाणूवा ।
सुमिणस्स निमित्ताई पुण्णं पावं च णाभावो ॥", इत्यादिवचनादत एवम्भूतमेतद् भ्रान्तमेव । न तन्निदर्शनात्-स्वप्नविज्ञानो-२५ दाहरणेन तद्विजातीयमपि-जाग्रद्विज्ञानं सर्व तथा भवितुमर्हति-भ्रान्तं भवितुमर्हति । न च तदपि-स्वप्नज्ञानं चित्तमात्रोद्भवम् । कुत इत्याह-बुद्धादीनामसम्भवात् स्वप्नविज्ञानस्य, अपि तु कर्माविलचित्तजमेव स्वप्नविज्ञानम्
(विवरणम्) (२३) अणूवा इति । अनूपः सजलो देशः ।। १ हेतुप्रवृत्ति०' इति ग-पाठः। २ 'अदर्शक' इति ङ-पाठः। ३ हूयदिट्ठतिअसुअ०' इति क-पाठः। ४ ‘पयइविगारदेवयाणूवं' इति ङ-पाठः। ५ छाया-अनुभूतदृष्टयन्ति(चिन्तित)श्रुतकृतिविकारदेवताऽनूपाः(१) । खप्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥ ६ 'अणूपा' इति च-पाठः ।
निमित्तम् ,