________________
७४
अनेकान्तजयपताकाख्यं प्रकरणम्
- [पञ्चमः
(मूलम्) कोऽर्थ एवास्तु, किमन्येन स्वहेतुपरम्पराजनितहेतुभेदादिना कल्पितेन बोधमात्रतत्त्ववादिनोऽस्य प्रदीर्घपरम्परायामपि तन्मात्रातिरेकेण ५ विशेषासिद्धितोऽभिधानमात्रत्वादिति । अर्थस्तु सत्क्षयोपशमादिमतोऽभ्रान्तज्ञानहेतुरितरस्य तु विपर्ययहेतुरिति न किञ्चिदत्रावद्यम् , लोकसमयसिद्धत्वात् । आह-आन्तरहेतोरेव तद्भेदाभ्युपगमे को दोषः। ननु न कश्चित् , अपि तु बाह्यार्थसिद्धिरेव । बोधमात्रस्वतत्त्वानि हि सर्वचित्तानि, न तदतिरिक्तं भेदकमिति तन्माननिबन्ध१० नत्वाद् विजातीयभेदासिद्धेः, अस्य चानुभवसिद्धत्वात् तद्भेदापादकं तत्कालुष्यकारि वस्तु सत् काङ्गीकर्तव्यम् , अन्यथा बुद्धस्येव
(खो० व्या०) तदन्येभ्यो बुद्धादिविज्ञानेभ्यो भियन्त इति । स च भेवका-भेदः अर्थ एव
अस्तु बाह्यः, किमन्येन स्वहेतुपरम्पराजनितहेतुभेदादिना कल्पितेन? १५ 'आदि'शब्दाद् वासनाशक्त्यादिग्रहः । किमिति तत्कल्पनाऽयुक्तेत्याह-बोधमात्र
तत्त्ववादिनः-वादिनः अस्य-स्वहेतुपरम्पराजनितहेतुभेदादेः प्रदीर्घपरम्परायामपि सत्यां तन्मात्रातिरेकेण-बोधमात्रातिरेकेण विशेषासिद्धितः कारणादभिधानमात्रत्वादस्येति । अर्थस्तु बाह्यः सत्क्षयोपशमादिमतः
पुंसः, 'आदि'शब्दात् सातोदयादिग्रहः, अभ्रान्तज्ञानहेतुः-एकचन्द्रादिज्ञानहेतुः २० इतरस्य तु-असत्क्षयोपशमादिमतः विपर्ययहेतु:-द्विचन्द्रादिज्ञानहेतुरितिएवं न किञ्चिदत्रावयं-पापम् । तथाहि-नकचन्द्रादिव्यतिरेकेण कृष्णक्षपादौ द्विचन्द्रज्ञानोदय इत्यपालोचनीयमिति न किञ्चिदत्रावद्यम् । कुत इत्याह-लोकसमयसिद्धत्वात्। आह-आन्तरहेतोरेव सकाशात् तद्भेदाभ्युपगमे-द्विचन्द्रादिज्ञानभेदाभ्युपगमे, प्रक्रमाद् बुद्धादिज्ञानेभ्यः, को दोष इति ? । एतदाशङ्याह-न २५ कश्चिदन्यः, अपि तु बाह्यार्थसिद्धिरेव। कथमित्याह-बोधमात्रखतत्वानि-- बोधमात्रस्खलक्षणानि यस्मात् सर्वचित्तानि, न तदतिरिक्तं-बोधातिरिक्तं भेदकं वस्तु इति-एवं तन्मात्रनिबन्धनत्वात्-बोधमात्रनिबन्धनत्वात् विजातीयभेदासिद्धेः ग्राह्याकारादिमत्त्वेन अस्य च-विजातीयभेदस्य अनुभवसिद्धत्वात् हेतोः । किमित्याह-तड्दापादकं-विजातीयभेदापादक बुद्धविज्ञानेभ्यः, पृथग्३० जनविज्ञानानामिति प्रक्रमः। तत्कालष्यकारि-बोधमात्रकालुष्यकारि वस्तु सत्अपरिकल्पितं कर्माङ्गीकर्तव्यं ज्ञानावरणीयादि; अन्यथा-तदनभ्युपगमे बुद्धस्येव १ सातवेदनीयकर्मण उदयादिग्रहः। ५ 'त्वात् भान्तर०' इति क-पाठः ।