________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) कारादिमद् विज्ञानमनुभूयत इति तत्तत्स्वभावतया सर्वस्यैव तथाविधत्वकल्पनं न्यायोपपन्नं बुद्धविज्ञानानामतथाविधत्वात् । न चेदमतथाविधत्वममीषां तदितरेभ्यो 'भेदकभेदमन्तरेण, न्यायतोऽनुप- ५ पत्तेः, पृथग्जनविज्ञानानामपि प्रमाणतदाभासाभ्युपगमात्, तत्रापि संवादिज्ञानजनकानां तदितरेभ्यस्तथैव भेदात्, भेदकमन्तरेण समानभेदहेतुमात्रात् तथाभेदासिद्धेः,अतिप्रसङ्गादिति। एवं द्विचन्द्रेतरादिविज्ञानानामपि भेदको भेदः समभ्युपगन्तव्यः । स च भेद
(खो० व्या०) -ज्ञानानाम् । कुत इत्याह-अतिप्रसङ्गात् । एनमेवाह न हीत्यादिना । न हि ग्राह्याकारादिमत्, “आदि शब्दात् ग्राहकाकारपरिग्रहः, विज्ञानमनुभूयत इति कृत्वा तत्स्वभावतया कारणेन सर्वस्यैव-विज्ञानस्य तथाविधत्वकल्पनं-ग्राह्याकारादिमत्त्वकल्पनं न्यायोपपन्नम् । कथं नोपपन्नमित्याह-बुद्धविज्ञानानां परपक्षेऽपि अतथाविधत्वात् , अग्राह्याकारादिमत्त्वादित्यर्थः । यदि १५ नामैवं ततः किमित्याह-न चेदमित्यादि । न चेदमतथाविधत्वम्-अनन्तरोदितममीषां-बुद्धविज्ञानानां तदितरेभ्या-ग्राह्याकारादिमद्विज्ञानेभ्यः सकाशाद् भेदकभेद-भेदकविशेषमन्तरेण-विना । कुत इत्याह-न्यायतोऽनुपपत्तेः, अतथाविधत्वस्य, समानहेतूनामसमानत्वायोगादित्यर्थः । समानं च बोधमानं परनीत्या सर्वविज्ञानहेतुस्तदपराभावेनेति भावनीयम् । तथा पृथग्जनविज्ञानानामपि-२० ग्राह्याकारादिमतां प्रमाणतदाभासत्वाभ्युपगमात् कारणात्। एवं च तत्रापिपृथग्जनविज्ञानसमुदाये संवादिज्ञानजनकानां प्रमाणानां तदितरेभ्यः-तदजनकेभ्यः प्रमाणाभासेभ्यः सकाशात् । किमित्याह-तथैव-तत्तदाभासतया पृथग्जनवुद्धविज्ञानवद् भेदात् । यदि नामैवं ततः किमित्याह-भेदक-वस्त्वन्तरमन्तरेण समानभेदहेतुमात्रादेव-केवलात् तथा-जातिभेदेन भेदासिद्धेः । असिद्धिश्च २५ अतिप्रसङ्गात्, बुद्ध विज्ञानानामपि जातिभेदप्रसङ्गेनेति। एवं द्विचन्द्रेतरादिविज्ञानानामपि भेदकः कश्चिद् भेदः समभ्युपगन्तव्यो येन तानि
१ 'भेदकम् , भेद०' इति ग-पाठः। २'भेदकार्थ' इति क-पाठः। ३ 'स्वात् ग्राह्यः' इति -पाठः।
अनेकान्त. १.