________________
७२
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम्). साम्प्रतं यदुक्तं 'द्विचन्द्रादिवत्' इत्येतन्निरूप्यते । अयं दृष्टान्तो हि वर्तते । अस्य चायमर्थोऽभिप्रेत:-योऽयं द्वितीयचन्द्रोऽलीकप्रति. ५भासस्तस्य सहोपलम्भनियमोऽस्ति।न चासौ ततो भिन्नः,भेदेऽवस्तुत्वाप्रसङ्गात् । ततश्च विज्ञानमेव तत्तादृशं बाह्यार्थग्रहणस्वभाव. मिवावभासमानमप्यबहिर्गोचरमेव । एवमखिलमेव विज्ञानमिति । एतच्चानालोचितसुन्दरम् , तस्य भ्रान्तत्वेन तथात्वाविरोधात्।भ्रान्तत्वं च बाधकप्रत्ययोपलब्धेर्दोषजत्वेन सकललोकसिद्धत्वात् तदनुः "भव एव तथाप्रतीतेः । एवं तबलात् तजातीयानामेव तत्त्वव्यस्थापनं युक्तम्, न तु सामान्येन सर्वेषाम् , अतिप्रसङ्गात् । न हि ग्राह्या
(खो० व्या०) साम्प्रतं यदुक्तं पूर्वपक्षग्रन्थे एव-द्विचन्द्रादिवदिति निदर्शनत्वेन एतन्निरूप्यते । अयं हि दृष्टान्तो वर्तते । अस्य चायमर्थोऽभिप्रेतो दृष्टान्तस्य ५ योऽयं द्वितीयचन्द्रः । किविशिष्ट इत्याह-अलीकप्रतिभासो बहिस्तदभावेन तस्य सहोपलम्भनियमोऽस्ति बहिश्चन्द्रेण । न चासौ-चन्द्रस्ततः-अलीकप्रतिमासाद् भिन्नः । कुत इत्याह-भेदे वस्तुत्वप्रसङ्गाद् बहिद्वितीयचन्द्रस्यापि वस्त्वभिप्रायः । ततश्चेत्यादि । ततश्च विज्ञानमेव तत्तादृशं-द्विचन्द्राकार
बाथार्थग्रहणखभावमिव अवभासमानमपि तथाप्रतीतेः। किमित्याह२० अपहिर्गोचरं-बहिस्तस्य द्वितीयचन्द्रमसोऽभावात् । अयं भावः-किल परस्यापि सिद्ध एव दृष्टान्तः । अयमर्थोपनयः । एवं द्विचन्द्रवदखिलमेव विज्ञानं बाह्यार्थग्रहणखमावमिव अबहिर्गोचरमिति । अत्राह सिद्धान्तवादी-एतचानालोचितसुन्दरम् अनन्तरोदितम् । कथमित्याह-तस्य-द्विचन्द्रविज्ञानस्य भ्रान्तत्वेन हेतुना तथात्वाविरोधात्-अबहिर्गोचरत्वाविरोधात् । भ्रान्तत्वं च तस्य पाध१५ कप्रत्ययोपलब्धेः तिमिरापगमेन । एतस्थिरीकरणायैवाह-दोषजत्वेन तिमिरमधिकृत्य मकललोकसिद्धत्वात् द्विचन्द्रज्ञानस्य तदनुभव एव-द्विचन्द्रानुभव एव सति तैमिरिकस्सापि तथाप्रतीते:-दोषजत्वेन प्रतीतेः । प्रतीतिश्च चिकित्साकरणगम्या एवं च कृत्वा तबलात्-द्विचन्द्रज्ञानबलात् तज्जातीयानामेव भ्रान्तानां तत्त्वव्यवस्थापनं युक्तं साधर्म्यसिद्धेः । न तु सामान्येन सर्वेषां
(विवरणम्) ३० (२०) परस्यापीति । आचार्यस्य ॥
१-२५१तमे पृष्ठे। ३ 'यतोऽस्ति' इति क-पाठः। ४ 'एतदया' इति क-पाठः। .