________________
अनेकान्तजयपताकाख्यं प्रकरणम्
. ( मूलम् )
तदभावात् कचिदपवर्गोपपत्तेरिति । एतेन निर्विषयज्ञानाभाव उक्तः । न चात्र प्रमाणम्, अनुमानाभावात् तल्लक्षणायोगात् अर्थापत्तेर
रप्य
५
( स्वो० व्या० ) ततस्तत्स्मृतिरिति । एवमर्थदर्शनरूपैवेयं-स्मृतिरिति न लौकिकं तदा तस्मिन् अर्थग्रहणकाले तथा तेन स्मर्त्तव्यग्रहणरूपेण तदभावात् तस्य- स्मर्त्तव्यस्यार्थस्याभावात् । अभावश्च कचिदपवर्गोपपत्तेर्विनाशसम्भवात् । ततश्च निर्विषयं तदर्थस्मरणमित्यर्थः, न च निर्विषयं ज्ञानमिष्यते परैः । अत एवाह - एतेनेत्यादि । १० एतेन - अनन्तरोदितेन निर्विषयज्ञानाभाव उक्तः, तैमिरिककेशादिज्ञानाभाव इत्यर्थः । न चात्र प्रमाणम्, अर्थज्ञानाद् बुद्धाविति प्रक्रमः । नन्वस्त्यनुमानं यदाह भाष्यकार : - " ज्ञाते त्वनुमानादवगच्छति" इति । एतदाशङ्कयाहअनुमानाभावात् । अभावच तल्लक्षणायोगात् - अनुमानलक्षणायोगात् (विवरणम् )
१५ (६) ततस्तत्स्मृतिरिति । ततः - तदा बुद्ध्यनुमानात् तत्स्मृतिः तस्याः - तदा बुद्धेः स्मृतिः - स्मरणम् ||
(६) एवमर्थदर्शनरूपैवेयं स्मृतिरिति न लौकिकमिति । एवम् उक्तेन प्रकारेणार्थदर्शनरूपैव - वार्तमानि कार्थदर्शनरूपैवेयं स्मृतिरित्येतत् परकीयं मतं न-नैव लौकिकम्, अपि तु लोकमार्गोत्तीर्णम् । अयमत्र भावः - साम्प्रतकालभाविनोऽर्थ - २० दर्शनात् प्राग्दृष्टेऽर्थे स्मृतिस्ततस्तदा बुद्ध्यनुमानं ततस्तत्स्मृतिर्भवति । यतस्ततो वार्तमानि कार्थदर्शनरूपै वेयमस्तु तद्धेतुकत्वात् तैस्या इति यदुच्यते मीमांसकेन तदलौकिकमेवेति ॥
७०
[ पचमः
(८) विनाशसम्भवादिति । यदि प्राच्यार्थस्मरणात् तद्विषयज्ञानस्मृतिरित्यङ्गीक्रियते, तदा विदादिः क्षणिकः पदार्थस्तत्कालविनष्टः कथं साम्प्रतं स्वज्ञानस्मृतिहेतुः २५ स्यादिति ? । यदि तु ज्ञानं स्वसंविदितमभ्युपेयते तदा तस्य साम्प्रतमपि पर्यायान्तराविष्टस्य सन्निहितत्वात् स्मृतिर्युज्यत एवेति ॥
(१०) तैमिरिककेशादिज्ञानाभाव इति । तैमिरिकस्य यत् केशादिज्ञानं तस्याभावो भट्टमते प्राप्नोतीत्यर्थः । तथाहि - तैमिरिकस्य शशधर द्वितयगोचरमुत्पद्यते ज्ञानम्, तत्र च बाह्य विषयस्यासन्त्त्वात् । अतः कथं तत्र बाह्यार्थः प्राकट्याद् विज्ञान३० मनुमीयते ? । न ह्यविद्यमानोऽर्थः प्रकटो भवति, अतो विज्ञानमेव तत्तादृशमुपलवरूपं स्वसंविदितमभ्युपगन्तव्यम् । स्वसंविदिते हि तस्मिन्नभ्युपगम्यमाने आत्मीय स्वरूपावबोध आत्मनैवोपपद्यते, अन्यथा तु भ्रान्तविज्ञानाभाव एव स्यादिति ॥
(११) अर्थज्ञानाद् बुद्धाविति प्रक्रम इति । अर्थज्ञानात् अर्थप्राकट्याद् बुद्धौ • साध्यायां इत्येषोऽर्थः प्रक्रमालभ्यत इत्यर्थः ॥
१ 'न स्वस्त्यनु०' इति ङ-पाठः । २ ' एवं दर्शनरूपै ०' इति क- पाठः । क- पाठः । ४ 'प्राप्त्यार्थ०' इति च पाठः । ५ 'स्वसंविदितेदितद्धि तस्मि०' इति
३ 'तस्यति' इति
ख--पाठः ।