________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) वेदने वा 'चेतनात्वम् ? । न हि परप्रकाशनात् खात्माप्रकाशक इह प्रकाशो नाम । न च तदनुभवमन्तरेण स्मृतिः । अस्ति चेयं ज्ञान. विषयाऽपि, तथाऽर्थदर्शनरूपैवेयमिति न लाकिकम् , तदा तथा- ५
(स्त्रो० व्या०) कथं तात्मावेदनमवेदने वाऽऽत्मनश्चेतनात्वं कथम् ? न हि परप्रकाशनादेव आ(खा)त्माप्रकाशक: सन् इह-लोके प्रकाशो नाम,प्रकाशश्च ज्ञानमिति । इहैवाभ्युच्चयमाह-न चेत्यादि । न च तदनुभवं-चेतनानुभवम् , ज्ञानानुभवमित्यर्थः, अन्तरेण-विना स्मृतियुज्यते । अस्ति चेयं-स्मृतिः ज्ञानविषयाऽपि, १० तथाऽनुभूतेः, अर्थान्तरस्मृतिनिबन्धनत्वेनार्थदर्शनं तथाऽर्थदर्शनं तदेव रूपं यस्याः सा तथाविधा । एतदुक्तं भवति-अर्थदर्शनात् प्राग्दृष्टेऽर्थे स्मृतिस्ततस्तदा बुद्ध्यनुमानं
(विवरणम्) (७) कथं तात्मावेदनमिति । अर्थप्रत्यक्षताकरणो हि चेतनाया नियमादात्मीयस्वरूपावभासः समस्ति यदुताहमेतस्यार्थस्य ग्रहणरूपतया परिणतेति ॥ १५
(७) चेतनात्वं कथमिति । यो य आत्मीयं स्वरूपं नावबुद्ध्यते स स न चिद्रूपः, यथा लेष्टुः । नावबुध्यते चात्मीयं स्वरूपं चेतना मीमांसकमते, अतः कथं सा चेतनात्वमाप्नुयादिति १ ॥
(८-९) प्रकाशश्च ज्ञानमिति । इह यो यः प्रकाशः स स स्वपरोभयप्रकाशको दृष्टः, यथा प्रदीपादिप्रकाशः । प्रकाशश्च ज्ञानम् , अतः स्वपरोभयप्रकाशकं भवत्विति॥२०
(११) तथाऽनुभूतेरिति । ज्ञानगोचराऽपि स्मृतिरनुभूयते लोके यदुत मम पूर्वकाले नीलाकारं ज्ञानमभवदिति । न चेयमस्वसंविदितज्ञानवादिनो मते घटते, ज्ञानस्य पूर्व कालेऽननुभवात् । न चाननुभूतेऽपि विषये स्मृतिः प्रवर्तते, अतिप्रसङ्गव्याघातात् । अतोऽभ्युपगन्तव्यमेतद् यदुत पूर्वकाले ज्ञानेनात्मीयं स्वरूपमात्मनैवावबुद्धमासीत् । ततः प्राच्यामवस्थां ज्ञानमात्मप्रतिबद्धा स्मरतीति स्मृतिरुत्पद्यत इत्यभिप्रायः ॥ २५
(१२) ततस्तदा बुद्ध्यनुमानमिति । तत:-प्राग्दृष्टार्थस्मृतेः सकाशात् तदा-अतीते काले यका बुद्धिस्तस्या अनुमानं भवति । यतो ममातीतार्थगोचरास्मृतिः साम्प्रतमुत्पन्ना अत() ज्ञाने(?ते) नूनं मम प्राक्काले तद्विषया बुद्धिरभवदिति रूप( ? स्थितम् ॥
१'चेतनत्वं न हि' इति ग-पाठः। २ 'चात्मनः' इति उ-पाठः। ३ 'तथार्थान्तर' इति 3-पाठः। ४ 'अथ प्रत्यक्षता' इति ख-पाठः। ५ 'भासः प्रकाशश्च शाह (१)मेतस्यार्थ.' इति ख-पाठः। ६ 'कथं यमिति' इति ख-पाठः। ७ 'इति पराभिप्रायः' इति ख-पाठः।