________________
६८ .
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः (मूलम् ) भासितानामप्यन्धादिभिर्घटादीनामदर्शनात् । क्रियान्तराभ्युपगमे
च तत्राप्ययमेव वृत्तान्तोऽस्मन्मतानुवादो वेत्यलं प्रपञ्चेन ॥ ५ . निर्णीतमेतदस्मद्गुरुभिः प्रमाणमीमांसादिषु “परोक्षप्रकृतेरर्थप्रत्यक्षताऽयोगात्, स्वप्रत्यक्षीकरणे च चेतनायाः कथं तात्मावेदनम
(स्वो० व्या०) कृत्वा। इत्थं चैतदङ्गीकर्तव्यमित्याह-प्रदीपाद्यवभासितानामप्यन्धादिभि:प्रमातृभिः स्वक्रियाशून्यैर्घटादिनामदर्शनात् लौकिकमेतत् । क्रियान्तरा१० भ्युपगमे च आत्मनः किमित्याह-तत्राप्ययमेव वृत्तान्तः अनन्तरोदितः अस्मन्मतानुवादो वा ज्ञानात्मधर्मतया । इत्यलं प्रपञ्चेन ॥
निर्णीतमेतदस्मद्गुरुभिः-पूर्वाचार्यैः प्रमाणमीमांसादिषु ग्रन्थेषु । किविशिष्टेन ग्रन्थेनेत्याह-परोक्षप्रकृतेरिति । एवमादिनेति योगः' । परोक्षप्रकृतेः-परोक्ष
भावस्य, ज्ञानस्येति प्रक्रमः, अर्थप्रत्यक्षताऽयोगात्, स्वप्रत्यक्षीकरणे च१५ आत्मप्रत्यक्षीकरणे च, अर्थस्येति प्रक्रमः, ज्ञातताकरणेनेत्यर्थः, चेतनायाः-बुद्धेः
(विवरणम् ) न चैतद् वाच्यं यथा दात्रेण भिन्नेनाप्यतिशयः क्रियते पामरस्य, एवं ज्ञानेनापि भिन्नेन सता पुरुषस्य विशेषः करिष्यते इति । यतो नैव दात्रेणैकान्तेनाविद्यमाना शक्तिः पामरस्याधीयते, किन्तु तस्मादभिन्नैव सा तेन पुष्टीक्रियते । तथा चोक्तम्२० "न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते" इति ।।
यदि त्वविद्यमानाऽपि शक्तिर्लवित्रेण लवितुराधीयते तदोपलशकलेऽपि किं न क्रियते, अविद्यमानताया अविशेषात् ? । तस्माल्लवितुरात्मभूतैव शक्तिः, बाह्यं तु करणमपेक्षत उपष्टम्भाय, न त्वविद्यमानायाः शक्तेजननाय । यत् त्वन्तरङ्गं करणं तत् कथं भिन्नं सदतिशयमाधत्ते, अन्तरङ्गत्वक्षतिप्रसङ्गात् ? । न सर्वथा भिन्नेन वस्तुना २५ भिन्नस्य वस्तुनोऽतिशयः क्रियते, मेरु-मकराकरयोरपि परस्परमतिशयकरणप्रसङ्गात् । तस्मादभिन्नमेव ज्ञानमात्मनोऽतिशयाल मिति स्थितम् ।।
(१५) अर्थस्येति प्रक्रम इति । अर्थस्य-घटादेः सम्बन्धिन आत्मनः प्रत्यक्षीकरणे इत्यर्थः। केन यत् (?) प्रत्यक्षीकरणमित्याह-(१५) ज्ञातताकरणेनेति । ज्ञायते
यः कर्मतापन्नः स ज्ञातः, ज्ञातस्य भावो ज्ञातता तस्याः करणं-विधानं तेन, ३० ज्ञायमानत्वकरणेनेत्यर्थः ।।
१ द्रष्टव्यं ७१तमं पृष्ठम् । २ 'यतोऽनेनैव' इति क-पाठः। ३ 'शयमिति' इति क-पाठः। ४ 'प्रतिक्रम इति' इति ख-पाठः।