________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) तदधि(? वि)कृतौ कर्मविशेषाधानस्याकिञ्चित्करत्वात् ? प्रदीपाद्यव
(खो० व्या) किञ्चित् प्रत्यक्षीकुर्यात् ? नैवेत्यर्थः । कुत इत्याह-तदधि(? वि)कृती-आत्मा- ५ विकृतौ सत्यां कर्म विशेषाधानस्य-अर्थगतविशेषाधानस्य अकिश्चित्करत्वात्। एवं च ज्ञानेनार्थे विशेषः कियत इत्यप्यपास्तम् , इतरेतरसापेक्षः कर्तृकर्मक्रियाविधिरिति
(विवरणम् ) (६) कर्मविशेषाधानस्येति । कर्मणः-घटादेः पदार्थस्य विशेषाधानं-प्रकटताकरणं तस्य । कर्मशब्दश्चैवं व्युत्पाद्यते--क्रियते-ज्ञानेन प्रकटरूपतया निष्पाद्यते इति । कर्म-घटादिवस्तु तद् । अयमभिप्रायः-अर्थस्य प्राकट्यलक्षणे विकारे सम्पन्नेऽपि यावन्नाद्याप्यात्मनो विकारोऽर्थग्रहणप्रवणतारूपः सञ्जायते तावन्नार्थप्रत्यक्षता सम्पद्यत इति ज्ञानेनार्थविशेषः क्रियते इति । यथाहि दात्रेण लव्यस्यैव विकारः क्रियते, न तु लायकस्य, तस्य तदवस्थस्यैवोपलम्भात् । एवं ज्ञानेनाप्यर्थविशेषः प्रकटनारूपो विधीयते, न तु पुरुषे इति मीमांसकाभिप्रायः॥
(७; पृ. ६८, पं. ८) इतरेतरसापेक्षः कर्तृकर्मक्रियाविधिरिति कृत्वेति । कर्तृ. कर्मणोः क्रियाविधिः-क्रियाविशेषः, क्रियाभेद इत्यर्थः । स कीदृशो वर्तत इत्याहइतरेतरसापेक्षः । इतरः कर्ता कर्म वा इतरस्य कर्मणः कर्तुर्वा सापेक्षो यत्र स तथा । क" हि क्रियमाणं पदार्थमपेक्ष्य कर्तृत्वं लभते । कर्म च कर्तारमङ्गीकृत्य कर्मत्वमाप्नोति । ततश्च कर्ता नियमात् कर्मणा विकारमानीयते आत्मकर्तृत्वप्रवणतालक्षणम् २० अन्यथा प्रागवस्थायामकुर्वाणोऽपि कर्तृव्यपदेशमशुवीत । न चैतत् दृष्टमिष्टं वा । कर्म तु का विकारमारोप्यत इति प्रतीतमेव । एवं चेतरेतरसापेक्षः कर्तृकर्मक्रियाविधिरिति सिद्धं भवति । यच्च दात्रदृष्टान्तात् ज्ञानेन करणभूतेनार्थ एव विशेष: क्रियते, न ज्ञातरि पुरुषे इत्युच्यते तदप्यनुपासितगुरोर्वचः । यदि हि दात्रेण लेवितुर्न विशेषः कश्चिदाधीयत इति पक्षीक्रियते तदा दात्रसम्बन्धात् प्राग्वद् २५ दात्रसम्बन्धेऽपि न स्याल्लवनक्रिया पुरुषस्य तिलतुषत्रिभागमात्रस्यापि, तत्र विकारस्याभावात् । तस्माद्भ्युपगन्तव्यमेतद् यदुत दात्रेण साधकतमेन कृत्वा पुरुष कश्चिद् विकारः क्रियत इति । एवं ज्ञानेनापि ज्ञातरि अर्थग्रहणप्रवणतालक्षणो विशेषः क्रियते एवेत्यभ्युपगन्तव्यम् । सर्वथा अनाहितातिशयस्य त्वात्मन. प्रागवस्थायामिव विव. क्षितज्ञेयविषयो बोधो न स्यात् , तस्माद् विवशेनाप्यभ्युपगमव्यमिदं यदुत ज्ञान-३० मात्मनः कथञ्चिदभिन्नं स्वसंविदितं च, अन्यथा तु न कथञ्चनाप्यर्थग्रहणमुपपद्यत इति ।
१ यावन्नाद्यात्मनो' इति च-पाठः। २ 'कर्मणो विकार' इति च-पाठः। ३ 'यस्वदात्रः' इति च-पाठः । ४ 'लवितरि विशेषः' इति क-पाठः।