________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
स्यात् स्यात् तद्धेतुः ; किन्त्वेवं सैव तत्स्वत आत्मसमवायिनी ज्ञानं न भवत्कल्पितबुद्ध्याख्यम् । सा चात्मधर्मत्वात् कथञ्चित् ५ तदभेदात् तथास्वभावत्वात् प्रतीत्यनुग्रहप्रवृत्तेः स्वसंविदितैवेति ज्ञानप्रत्यक्षतासिद्धिः ॥
६६
[ पश्चमः
स्यादेतद यदि तदात्मक्रियारूपमेवा स्वसंविदितं सदर्थप्रत्यक्षताकारि स्यात् को दोषः स्यात् ? । उच्यते-सदैव ( तस्यैव ) तदप्रत्यक्षतायां प्रमातुः क्रियान्तराभावात् अर्थप्रत्यक्षतैव न स्यादिति । १. हृ (? उल्लेखादिशून्यो हि सुतकल्पोऽसौ कथं किञ्चित् प्रत्यक्षीकुर्यात्,
१०
२५
( खो० व्या० )
भ्युपगतं बोधक्रियाधायकं स्यात् ज्ञानं स्यात् तद्धेतुः - भवेदर्थप्रत्यक्षताहेतुः, किन्त्वेवं परिकल्प्यमाने सैव - बोधक्रिया तत्त्वतः - परमार्थेन आत्मसमचायिनी ज्ञानं न भवत्परिकल्पितं बुद्ध्याख्यं ज्ञानम् । ततः किमित्याह - सा च१५ बोधक्रियाऽऽत्मधर्मत्वात् कारणात् कथञ्चित् तदभेदात्- आत्मनोऽभेदात् तथास्वभावत्वात् खसंविदितस्वभावत्वात् प्रतीत्यनुग्रहप्रवृत्तेः तथाऽनुभवभावेन स्वसंविदितैवेति एवं ज्ञानप्रत्यक्षतासिद्धिः स्वसंविदितत्वेन ॥
स्यादेतत्- अथैवं मन्यसे यदि तत् ज्ञानम् आत्मक्रियारूपमेवाखसंविदितं सदेकरूपतयाऽर्थप्रत्यक्षताकारि स्यात् को दोषः स्यात् ? । न १० कश्चिदित्यभिप्रायः । एतदाशङ्कयाह - उच्यते यो दोषः स्यात् । तस्यैव - अधिकृतज्ञानस्य तदप्रत्यक्षतायाम् आत्माप्रत्यक्षतायां सत्यां प्रमातुः - आत्मनः क्रियान्तराभावात् कारणात् अर्थप्रत्यक्षतैव न स्यादिति अयं दोषः स्यात् । तत्समनावाह - हृ ( उ ) लेखादिशून्यो यस्मान्निष्क्रियः सुप्तकल्पोऽसौ-आत्मा कथं ( विवरणम् )
(२१) आत्माप्रत्यक्षतायामिति । ज्ञानेनात्मीयं स्वरूपं नावबुध्यत एव यदुताहमर्थग्रहणरूपतया परिणतमिति ॥
(२१-२२) क्रियान्तराभावादिति । ज्ञानलक्षणैव तदाऽऽत्मनः क्रिया, न त्वन्या । सा चास्यासंविदितेति कथमर्थप्रत्यक्षता १ ॥
(२३) उल्लेखादिशून्य इति । उल्लेखस्तात्कालिको विशिष्टोऽध्यवसायः । ३० 'आदि' शब्दात् स्मृत्यादिग्रहः ||
१ 'वायिनि ज्ञानम्, न भवेत् कल्पित०' इति ग-पाठः ।
२ 'कल्पासो कथं ' इति क-पाठः ।
३ ‘भवेत्' इति ङ-पाठः । ४ 'अर्थाप्रत्यक्ष०' इति ङ-पाठः । ५ 'वा स्वसं०' इति च - पाठः ।