________________
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम्) यदाहुरेके-"प्रत्यक्षोऽर्थः परोक्षंतु ज्ञानं तत्प्रत्यक्षतयाऽर्थापत्तिसमवसेयम्" इति। अपाकरणं चास्य परोक्षत्वे ज्ञानस्यार्थप्रत्यक्षताऽसिद्धेः, ५ ज्ञानेन ह्यर्थः प्रत्यक्षीक्रियते । तचेत् परोक्षं कथमर्थः प्रत्यक्षो नाम?। तेन प्रत्यक्षीकृतत्वादिति चेत्, न, आत्मानमप्रत्यक्षीकुर्वतोऽन्यप्रत्यक्षीकरणासिद्धेः । इन्द्रियवत् सिद्धिरिति चेत्, न, तस्य बहिष्करण
(स्वो० व्या०) प्रतिबन्धसामर्थ्यादिति । एतेन-अनन्तरोदितेन एतदप्यपाकृतमेव-वक्ष्यमाणं १० यदाहुरेके-मीमांसकाः । किमाहुरित्याह-प्रत्यक्षोऽर्थः-नीलादिः, परोक्षं तु विज्ञानं तद्राहकं तत्प्रत्यक्षतया-अर्थप्रत्यक्षतया कारणेन अर्थापत्तिसमवसेयं ज्ञानमिति, यथोक्तं ज्ञाते त्वनुमानादवगच्छतीति । कथमपाकृतमित्याह अपाकरणं चेत्यादिना । अपाकरणं च अस्य परोक्षत्वे ज्ञानस्य तात्त्विके सति । किमित्याह-अर्थप्रत्यक्षताऽसिद्धेः कारणात् । एतदेव भावयति ज्ञानेन यस्मादर्थः १५ प्रत्यक्षीक्रियते । तचेत् ज्ञानं परोक्षम्, एवं सति कथमर्थः प्रत्यक्षो नाम ?
नैवेत्यर्थः । तेन-ज्ञानेन प्रत्यक्षीकृतत्वादिति चेत् प्रत्यक्षः। एतदाशङ्याहनेत्यादि । न,आत्मानमप्रत्यक्षीकुर्वतः-ज्ञानस्य अन्यप्रत्यक्षीकरणासिद्धेः
(विवरणम्) (१२) ज्ञाते त्वनुमानादवगच्छतीति । ज्ञाते-परिच्छिन्ने (तुः) पुनरर्थे घंटा२० दावनुमानात् सकाशादवगछति-बुध्यते ज्ञानं, यतोऽयमों मम प्रत्यक्षः समजनि । तज्ज्ञाने नूनमेतद्विषयं मम ज्ञानमभूदित्युल्लेखेनेत्यर्थः । यच्चार्थापत्तिसमवसेयं ज्ञानमित्युक्त्वा अनुमानादवगच्छतीत्युक्तं तदर्थापत्यनुमानयोररूप एव भेद इति कृत्वा ।
(१५) एवं सति कथमर्थः प्रत्यक्षो नामेति । स्वतो हि परोक्षं स्वज्ञानं कथमर्थं प्रत्यक्षीकरोति ?। न ह्यप्रतीतं विशेषणं विशेष्ये बुद्धिं जनयति । तथाहि२५ नीलत्वेऽनवबुद्धे सति न भवत्येवेशी बुद्धिर्यदुत नीलं सरोजमिति । एवमत्राप्यर्थ इति विशेष्यस्य विशेषणं प्रत्यक्ष इति । एतच्च प्रत्यक्षत्वलक्षणं विशेषणमप्रतीतमेव ज्ञानस्य परोक्षत्वेऽङ्गीक्रियमाणेऽतः कथं तेनार्थो विशेष्यत इति ॥
(१७) अन्य प्रत्यक्षीकरणासिद्धेरिति । यदि हि ज्ञानमात्मानमात्मनाऽवबुध्यते यदुताहमर्थग्रहणरूपतया परिणतं तदा युज्यते तेनान्यस्य ग्रहणम् । यदा तु ज्ञानमा३० त्मीयस्वरूपावबोधं प्रति लेष्टुप्रायं तदा कथमेषोऽर्थः प्रत्यक्ष इति भवत्यध्यवसायः ?।।
१ 'बहिः करण.' इति क-पाठः। २ 'तत्वेन ज्ञानं' इति ङ-पाठः। ३ ‘पटादा०' इति चपाठः । ४ 'त्युक्तमुक्तेत्तदः' इति च-पाठः। ५ 'सतो हि' इति ख-पाठः । ६ 'सज्ञानं' इति कपाठः। ७ 'यदा' इति च-पाठः। ८ 'प्रति लेष्टप्राय' इति ख-पाठः।