________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) असिद्धश्च, सहोपलम्भनियमस्योभयासिद्धत्वात्, भवतः सहार्थायोगात् तदपरस्यानभ्युपगमात्, अभ्युपगमे च साधनवैफल्यादिति । परस्यापि नीलेन सह तद्धिय उपलम्भो नाभेदेन सिद्धः।५ भेदेन तु सहार्थसिद्धौ न साधनमिष्टसाधकमितरस्येति । न चाभेदस्य सहोपलम्भनियमस्य च व्याप्यव्यापकभावः, अन्यथाऽप्यस्याविरोधात् ज्ञानज्ञेयतत्स्वभावत्वत एव नियमोपपत्तेः, ज्ञानस्यार्थग्रहणखभावस्य सतः खसंविदितरूपत्वात् चित्रस्वभावतया तथात्वाविरोधात्, अर्थस्य च ज्ञानविविक्ततया तथा तथा तद्-१० ग्राह्यस्वभावत्वात् । इत्यपि सहोपलम्भनियम उपपद्यत एव, तद्योग्यतालक्षणप्रतिबन्धसामर्थ्यादिति । अनेनैतदप्यपाकृतमेव
(खो० व्या०) कान्तिको हेतुः सहोपलम्भनियमाख्यः । किं तर्हि १ असिद्धश्च । कथमित्याहसहोपलम्भनियमस्य नील-तद्धियोः उभयासिद्धत्वात्, वादिप्रतिवाद्य- १५ सिद्धत्वादित्यर्थः । एतत्प्रकटनायाह-भवतः-तव सहायोगात् नीलाभावेन । अत एवाह-तदपरस्यानभ्युपगमाद् धियो व्यतिरेकेण नीलस्येत्यर्थः। अभ्युपगमे तदपरस्य नीलस्य साधनवैफल्यात्, बाह्यसिद्ध्यैव इति । परस्यापिप्रतिवादिनो नीलेन सह तद्धियः-नीलधिय उपलम्भो नाभेदेन सिद्धः, भेदाभ्युपगमात् । भेदेन तु सहार्थसिद्धौ सत्यां नील-तद्धियोः । किमित्याह-न २० साधनं प्रस्तुतमिष्टसाधकमितरस्य, साधनवादिन इति अर्थः । न चेत्यादि । न च अभेदस्य साध्यतयेष्टस्य सहोपलम्भनियमस्य च साधनत्वेनाभिहितस्य व्याप्यव्यापकभावः । कथं नेत्याह-अन्यथाऽपि-अभेदमन्तरेणापि अस्यसहोपलम्भनियमस्य अविरोधात् । एनामेवाह-ज्ञानज्ञेयतत्वभावत्वत एव कारणात् सहोपलम्भनियमोपपत्तेः । ज्ञान-ज्ञेययोस्तत्स्वभावत्वमभिधातुमाह- २५ ज्ञानस्यार्थग्रहणस्वभावस्य सतः स्वसंविदितरूपत्वात् चित्रखभावतया कारणेन तथात्वाविरोधात् ज्ञानस्य अर्थस्य च ज्ञानविविक्ततया हेतुभूतया तथा तथा-तेन तेन प्रकारेण स्पष्टेतरादिना तग्राह्यस्वभावत्वात्-ज्ञानग्राह्यस्वभावत्वात् । इत्यपि-एवमपि सहोपलम्भनियम उपपद्यत एव तद्योग्यतालक्षणप्रतिबन्धसामर्थ्यात् तयोः-ज्ञानार्थयोरेवम्भूतयोग्यतालक्षण-३० १ 'असिद्धेश्च' इति ङ-पाठः। २ 'अन्यथा भेदमन्तरेणापि' इति ङ-पाठः ।