SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ अनेकान्तजयपताकाख्यं प्रकरणम् [ पञ्चमः - - - तथापि च ज्ञानमयः प्रकाशः प्रत्यक्षपक्षस्य तवाविरासीत् ॥ ५ तथा "प्रेतवत् पुनः सन्तानांनियमः सिद्धः", तथा "नरकवत् पुनः सर्व सिद्धम्" इत्यादि वचनसमर्थनात्; अन्यथा विचारायोगः खमात्रवेदनातिरेकेण सर्वानिश्चितेरिति । एवं न केवलमनैकान्तिकः (खो० व्या०) तयैव तथापि च ज्ञानमयः प्रकाशस्तत्त्वाविसंवादी प्रत्यक्षपक्षस्य तैवावि१० रासीत्-प्रकटो बभूव । "तथा 'प्रेतवत् पुनः सन्तानानियमः सिद्धः" "विंशिकायां भावनाधिकारे उक्तम् । तथा "नरकवत् पुनः सर्वं सिद्धम्। इत्यादि विशिकोक्तवचनसमर्थनात् । इत्थं चैतदङ्गीकर्त्तव्यमित्याह-अन्यथा विचारायोगः । कथमित्याह-वमात्रवेदनातिरेकेण सर्वानिश्चितेः विज्ञानादन्यस्यानभ्युपगमाद् भवता इति भावः। एवम्-उक्तनीत्या न केवलमनै (विवरणम् ) (९) प्रत्यक्षपक्षस्येति । प्रत्यक्षाः-सर्वे पक्षाः साध्यानि यस्य स तथा तस्य । एतच्च वृत्तं बुद्धस्तवनसम्बन्धि । (१०) प्रेतवत् पुनः सन्तानानियमः सिद्ध इति । अयमत्रार्थः सम्भाव्यतेन हि प्रेतो मृत्वा पुनः प्रेत एव भवति, किन्त्वन्यो मनुष्यादिरेव । ततः प्रेत२० वदन्येषामपि प्राणिनां मृतानां पुनर्द्वितीयवारं सन्तानस्य--सजातीयस्यैवानियम:-- नियमाभावः सिद्धः, कदाचिद् विजातीयसन्तानतयाऽप्युत्पादादिति ॥ (११) नरकवत् पुनः सर्व सिद्धमिति । सर्वमपि सांसारिकं वस्तु दुःखबहुलतया नरकवत् सिद्धम् , प्रतीतमित्यर्थः । 'पुनः'शब्दस्तु विंशतिकोक्तपाश्चात्यार्थापेक्षया विशेषार्थो द्रष्टव्यः । २५ (१२) इत्यादि विंशिकोक्तवचनसमर्थनादिति । यथैतेषां वचनानामर्थः समर्थ्यते भवता (तथा) चित्तचैत्तसहोपलम्भनियमलक्षणोऽर्थः किमिति न समर्थ्यत इत्यर्थः । अत्र च 'ग्राह्यं न तस्य ग्रहणं न तेन' इत्यादिना वृत्तेन बुद्धज्ञानस्वरूपं प्रतिपादितम् । अग्रेतनवाक्यद्वयेन तु बाह्यार्थसत्ता समर्थिता ॥ १ उपजातिः। २ 'नियमसिद्धः' इति क-पाठः। ३ 'तवाविरोशीत्' इति ङ-पाठः।। ४-५ अत्रत्ये क-टिप्पणके यथा-आचार्यवसुबन्धुप्रणीते विज्ञप्तिमात्रतासिद्धिप्रकरणद्वये 'विंशतिकाकारिकाः' इति नामकमेकं प्रकरणम् । तत्र तृतीया तुरीया च कारिके यथा"देशादिनियमः सिद्धः स्वप्नवत् प्रेतवतू पुनः। संतानानियमः सर्वैः पूयन धादिदर्शने ॥ ३ ॥ स्वप्नोपघातवत् कृत्यक्रिया नरकवत् पुनः । सर्व नरकपालादिदर्शने तैश्च बाधने ॥ ४ ॥" तृतीयकारिकावृत्ती 'सिद्ध इति वर्तते', चतुर्थ कारिकावृत्तौ तु 'सिद्धमिति वेदितव्यम्' इति । ६ 'सन्तानं सजातीय' इति क-पाठः । ७ 'ग्राहकं भूतेनेत्यादिना इति ख-पाठः। ८ 'ज्ञानस्य खरूप' इति क-पाठः।
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy