________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम्) एव । आगमसिद्धमेतदिति नानेन व्यभिचार इति चेत्, किं नेदमिस्थमिति न, किंवा न निश्चीयत इति? । आद्यपक्षे न प्रमाणमित्ययुक्तो मूलवंशनिवा, चरमे तु निश्चीयत एव वचनेनेति व्यभिचारसिद्धिः। ५ इष्टश्च भवता वचनानुसार पूर्वाचार्यमताङ्गीकरणात् ।
"ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यतयाऽपि शून्यम् ।
(स्वो० व्या०) आगमसिद्धमेतत्-अनन्तरोक्तमिति नानेन व्यभिचारः। इति चेत्,एतदा- १० शक्याह-किं नेदम्-आगमसिद्धमित्थमित्यतो न अनेन व्यभिचारः, किं वा न निश्चीयत इति अतोन ? । किञ्चातः? उभयथाऽपि दोष इत्याह-आद्यपक्षे नेदमि. त्थमित्यस्मिन् न प्रमाणम् । इत्थं नेत्थं वेति क एतद् वेद ? इति एवं प्रमाणाभावे सति अयुक्तो मूलवंशनिवः, मूलवंशः-बुद्धशरद्वतीपुत्रोदयस्तन्निह्नव एवमिति । चरमे तु विकल्पे न निश्चीयत इत्यस्मिन् । किमित्याह-निश्चीयत एव १५ वचनेन तथोपलब्धिरिति-एवं व्यभिचारसिद्धिः, अधिकृतहेतोरनैकान्तिकत्वसिद्धिरित्यर्थः । इष्टश्च-अङ्गीकृतश्च भवता वचनानुसारः। कथमित्याह-पूर्वाचार्यमताङ्गीकरणात्। एतदेवाह-ग्राह्यं न तस्य-बुद्धविज्ञानस्य ग्राह्यमेतदित्येवं ग्रहणं न तेन-बुद्धविज्ञानेन इदन्तया ज्ञानान्तरग्राह्यतयाऽपि शून्यमिदं
(विवरणम्) बौद्धमते भावात् सहोपलम्भनियमोऽस्ति, न चानयोरैक्यम् , अभ्युपगमप्रकोपात् । एवमेकस्मिन्नेव काले ज्ञान-वेदनेऽनुभूयेते, न चैक्यमेतयोः। एवं सज्ञादिध्वपि 'योज्यम् । ततः सहोपलम्भनियमादिति हेतुरनैकान्तिक एवेति स्थितम् ॥
(११) कि नेदमागमसिद्धमित्थमित्यतो नानेन व्यभिचार इति । किं ननैवेदमागमसिद्धं वस्तु चित्तचैत्तसहोपलम्भनियमलक्षणम् । इत्थं यथा प्राञ्जलवृत्त्याऽव-२५ बुध्यते तथा वर्तते इत्यतः कारणानानेन व्यभिचारः प्रेरणीयः । अयमभिप्राय:-इदमागमसिद्धं वस्तु यथा भवद्भिर्व्याख्यायते प्रतीयते च तथान वर्तत एवेति । यथा नानेन व्यभिचार इति सहोपलम्भनियमाख्यहेतोः कार्य इति बौद्धाभिप्रायो भविष्यति कदाचित् ॥
(१४) बुद्धशरद्वतीपुत्रोदय इति । बौद्धागमशास्त्रविशेषकः कश्चित् सम्भाव्यते॥ १ 'चेति' इति क-पाठः । २ 'सरस्वतीपुत्रो.' इति उ-पाठः। ३ 'लब्धेरिति' इति क-पाठः । ४ 'कालज्ञान' इति क-पाठः। ५ 'योज्यन्ते' इति च-पाठः। ६ 'यदा' इति च-पाठः । ७ 'शरीरद्धतिपुत्रादय इति' इति ख-पाठः। ८ तद्विषय इति' इति क-पाठः।