SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः (मूलम्) एवं चानैकान्तिकोऽपि हेतुः, बुद्धविज्ञेयचित्तादावपि भावात् । तथाहि-बुद्धस्य भगवतो यद् विज्ञेयं सन्तानान्तरचित्तं तस्य बुद्ध५ विज्ञानस्य च सहोपलम्भनियमोऽस्ति । अथ च नानात्वमित्यनैकान्तिकः। तथा चित्तचैत्तानामपि सहोपलम्भनियमोऽस्तीत्यनैकान्तिक (खो० व्या) एवं चेत्यादि । एवं च कृत्वाऽनैकान्तिकोऽपि हेतुः सहोपलम्भनियमादित्ययं न केवलं विरुद्धः । कथमित्याह-बुद्धविज्ञेयचित्तादावपि सन्तानान्तरवर्तिनि, १० 'आदि'शब्दाच्चैतत्परिग्रहः भावात्-विद्यमानत्वादिति । एतद्भावनायैवाह तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । बुद्धस्य भगवतो यद् विज्ञेयमालम्बनं सन्तानान्तरचित्तं तस्य-सन्तानान्तरचित्तस्य वुद्धविज्ञानस्य च सहोपलम्भनियमोऽस्ति अभ्युपगमनीत्या । अथ च नानात्वमनयोरित्यनैकान्तिका सहो पलम्भनियमः, नानात्वेऽपि भावादिति । तथा चित्तचैत्तानामपि-विज्ञानवेदना१५ दीनां सहोपलम्भनियमोऽस्तीति कृत्वा अनैकान्तिक एव-अधिकृतहेतुः । (विवरणम्) (१४-१५) चित्तचैत्तानामपि विज्ञानवेदनादीनामिति । "विज्ञानं वेदना सज्ञा संस्कारो रूपमेव च । भिक्षूणां शाक्यसिंहेन स्कन्धाः पञ्च प्रकीर्तिताः ॥"५ २० इति वचनाद् बौद्धमते पञ्च स्कन्धाः । तत्र विज्ञानं चित्तचैत्तभेदाद् द्विविधम् । तत्रापि चित्तं सामान्यपाहि, यथा-गच्छतस्तृणस्पर्शादि । चित्ते भवाश्चैत्ता:-ज्ञानविशेषाः । विशिष्टानि ज्ञानानि चैत्ता भण्यन्त इत्यर्थः । यथा मार्ग एव गच्छतः पर्वतोऽयमित्यादि ज्ञानम् । वेदनारूपा(?) साऽपि द्विधा-सामान्यतो विशेषतश्च । तत्र सामान्यतो निरन्तरं यदलक्षं सुखदुःखानुभव इति । विशेषतस्तु सुखवेदना, यथा-केनापि २५ भव्यप्राणिना सर्वाङ्गीणालङ्कारालङ्कृतिकान्तिप्राग्भारप्रकटीकृतनिखिलदिक्चक्रवालजैनबिम्बावलोकनेऽपूर्वः कश्चित् प्रमोदोऽनुभूयत इति । एवं दुःखवेदनाऽपि भाव्या । सम्झा आहाराद्यभिलाषरूपा प्रतीतैव । संस्कारः पूर्वकालदृष्टानुभूतार्थगोचरस्मृतिवीजरूपः । संज्ञा-संस्कारावपि चित्तचैत्तद्वयस्वरूपावेव । रूपं तु घटायो विचित्रा बहिर्वर्तिनः पदार्थाः । प्रस्तुता चेयमत्र योजना-चित्तचैत्तज्ञानयोरेकस्मिन्नपि काले १ 'बुद्धिविज्ञेय.' इति क-पाठः। २ 'नान्तरे चित्त' इति ग-पाठः। ३ 'बुद्धिविज्ञानस्य' इति क-पाठः । ४ 'बुद्धिविज्ञेयः' इति -पाठः। ५ अनुष्टुप् । ६ 'भवाखेत्ता ज्ञान.' इति च-पाठः। ७ 'यद् लक्ष्य इति च-पाठः। ८ 'मुख.' इति क-पाठः। ९ 'संज्ञासत्कारा०' इति च-पाठः । १० 'प्रस्तुता वेय.' इति स्व-च पाठः।
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy