________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) ग्राहकत्वायोग इत्युक्तप्रायम् ॥
न चास्योक्तप्रकारातिरिक्तोऽर्थः । न चायमप्येकार्थों लौकिकः। न च ग्रन्थकारबहुमतः, न च बहुमतत्वेऽपि युक्तरूपः। “परार्थे ह्यनुमाने ५ वक्तुर्वचनगुणदोषा अपि विचिन्त्यन्ते” इत्युक्तम् । "प्रतिपादयताऽनेन परमवश्यं प्रतीतपदार्थकःशब्द उपादेयः, अन्यथा प्रतीतेरभावात्"। लोके च नार्थान्तरेण विना 'सह'शब्दप्रयोगो दृष्ट इति कथमयमेकार्थवाचको युक्तरूपः स्यात् । साङ्केतिकेऽपि शब्दार्थयोगे लोकप्रसिद्धिरेव अनुसतव्या, तत्परित्यागेनासमञ्जसत्वप्रसङ्गात् ॥ १०
(स्वो० व्या०) भिन्नार्थेन किं बहुना ? अन्यथा ग्राहकत्वायोगो ज्ञानस्य एकान्तैकस्वभावतया खग्रहणायोगाद् ग्राह्यग्राहकोभयरूपतापत्तेरित्युक्तप्रायं-प्रायेणोक्तमेतत् ॥
न चेत्यादि । न च अस्य, प्रक्रमादेकेनैवोपलम्भात् इति वचनस्य । किमित्याहउक्त कारातिरिक्तोऽर्थः । किं तर्हि ? उक्तप्रकार एव । न चेत्यादि । न च अय- १५ मप्येकार्थः, 'सह' शब्दस्येति प्रक्रमः । किमित्याह-लौकिकः । न च ग्रन्थकारबहुमतः 'सह'शब्दस्यैवैकार्थः, तस्य वाक्प्रयोगकुशलत्वाद् ग्रन्थकारस्य । न च बहुमतत्वेऽपि ग्रन्थकारस्य युक्तरूप: 'सह'शब्दस्सैकार्थः । कुत इत्याहपरार्थे यस्मादनुमाने वक्तुर्वचनगुणदोषा अपि विचिन्त्यन्त इत्युक्तं धर्मकीर्तिना। कथमित्याह-प्रतिपादयतोऽनेन-वक्रा परं-प्रतिपाद्यमवश्यं २० प्रतीतपदार्थकः शब्द उपादेयः । अन्यथा-तमन्तरेण प्रतीतेरभावात् इति वार्तिकमिदमुक्तम् । इदमुपन्यस्य प्रक्रान्तोपयोगमाह लोके चेत्यादिना । लोके च-आविद्वदङ्गनादौ नार्थान्तरेण विना। किमित्याह-'सह'शब्दप्रयोगो दृष्ट इति कृत्वा । कथमयं-'सह'शब्दः एकार्थवाचको युक्तरूपः स्यात् ? नैव युक्तरूपः । साङ्केतिके शब्दार्थसम्बन्धे नैवमपि कश्चिद् दोष इत्यारेकानिरासायाह- २५ साङ्केतिकेऽपि शब्दार्थयोगे-शब्दार्थसम्बन्धे । किमित्याह-लोकप्रतीतिरेवानुसर्तव्या हस्तिन्येव 'हस्ति'शब्दः सङ्केतनीयः, न शुनि । तत्परित्यागेन-लोकप्रसिद्धिपरित्यागेन हेतुना किमित्याह-असमञ्जसत्वप्रसङ्गात्-आक्रोशस्यापि स्तवत्वप्रसङ्गेन ।
१ 'शब्दस्यैकोऽर्थः' इति -पाठः। २ 'तेन' इति ङ-पाठः ।