________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः (मूलम्) इदमिति चेत्, कथं तद्यस्यासतेति वाच्यम्। शुद्धेः सा किमत्रोच्यत इति चेत्, साऽप्यहेतुकेति न युक्तैव । परार्थभूते हेतुकेति चेत्, ५कथं तदनवगमे तत्सिद्धिरिति ? । अचिन्त्यशत्त्यादिना तु तदवगमो नीलेऽपि तुल्यः ॥
असम्पृक्तेनैव ग्राह्यग्रहणे त्वस्मन्मतानुवाद एव, ग्रायसन्तानारूषितस्यैवास्य तत्वभावतया ग्राहकत्वाभ्युपगमात्, अस्य च न्याय्यत्वात् , भिन्नार्थग्रहणात्, प्रतिप्राणि प्रतीतेः, भावतो बाधा१० सम्भवात् , सदा तथोपलम्भात्, तथाऽर्थक्रियादर्शनात् , अन्यथा
(खो० व्या०) इति चेत्, एतदाशक्याह-कथं तर्हि अस्य-बुद्धस्स आप्ततेति वाच्यम् । शुद्धः। सा-आप्तता किमत्रोच्यते? । इति चेत्, एतदाशङ्कयाह-साऽपिशुद्धिः अहेतुका । इति-एवं न युक्तैव । परार्थभूतेः-परार्थादुत्पत्तेः कारणात् ५ नाहेतुका । इति चेत्, एतदाशङ्कयाह-कथं तदनवगमे-परानवगमे तत्सिद्धिः-परार्थसिद्धिरिति ? । अचिन्त्यशत्त्यादिना तु, 'आदि'शब्दादवाच्यवादग्रहः, तदवगमः-परावगमो नीलेऽपि तुल्यः, भेदाविशेषात् ॥
द्वितीयं पक्षमधिकृत्याह-असम्पृक्तेनैव विज्ञानेन ग्राह्यग्रहणे पुनरभ्युपगम्यमाने । किमित्याह-अस्मन्मतानुवाद एव। कथमित्याह-ग्राह्यसन्तानारूषि२० तस्यैवास्य-विज्ञानस्य केवलस्य सतः तत्स्वभावतया-विच्छिन्नार्थग्रहणस्वभावतया ग्राहकत्वाभ्युपगमात्, अस्य च-अभ्युपगमस्य न्याय्यत्वात् । न्याय्यत्वं च भिन्नार्थग्रहणात् । एतच प्रतिप्राणि-प्राणिनं प्रति प्रतीतेः कारणात् तथा भावतो बाधासम्भवात् । अस्याभ्युपगमस्यासम्भवश्व सदा तथोपलम्भात्-असम्पृक्तग्राह्यग्रहणतयोपलम्भात् । तथाऽर्थक्रियोपलम्भाद्
(विवरणम्) (१४) परार्थादुत्पत्तेरिति । परे-बुद्धव्यतिरिक्ता येऽनुग्राह्याः प्राणिनस्तेषामर्थःसुमार्गावतरणलक्षणं प्रयोजनं पैरार्थस्तस्माद्धेतुभूतात् सकाशादुत्पत्तेर्बुद्धज्ञानशुद्धताया भगवतो हि बुद्धस्य ज्ञानँशुद्धिश्चौर्यपरदाराद्यनार्यकार्यपरम्पराप्रवणपाणिनामुपकाराय प्रवर्त्तत इति प्रतिपद्यन्ते ताथागताः॥
१'तथा' इति पाठो न विद्यते ग-प्रतौ। २ 'तस्याभ्यु०' इति ङ-पाठः। ३ 'परार्द्धस्त स्मा.' इति ख-च पाठः। ४ 'शुद्धिश्चौरपारदाराः' इति च-पाठः। ५ 'तथागतः' इति क-पाठः।