________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) हेतुदोषा उच्यन्ते । सहोपलम्भनियमादित्ययं तावद् विपर्ययसाधकत्वाद् विरुद्धः, सहशब्दस्यार्थान्तरेण विना प्रयोगादर्शनात्, सहोपलम्भादेव भिन्नत्वं नीलस्य, तद्धियः । इति विपर्ययसिद्धिः। ५ स्यादेतदेकार्थः 'सह'शब्दः । तेनैतदुक्तं भवति-सहोपलम्भनियमादेकेनैवोपलम्भादिति यावत् । एवं च न विपर्ययसिद्धिरित्युक्तदोषाभावः। नैतदेवम् , अविचारितरमणीयत्वात्। तथाहि-एकेनोपलम्भा. दिति कोऽर्थः । किं ग्राह्य-ग्राहकयोरेकेनैव वेदनात् उतासम्पृक्तेनैव ग्राह्यग्रहणादिति ? । यदि ग्राह्य-ग्राहकयोरेकेनैव वेदनं ततः स एक १० एवानुभवः। इति प्राप्तं बुद्धविज्ञान-पृथग्जन विज्ञानयोरेकत्वम् ।न तत् तस्य ग्राहकमिति चेत्, न तेन सन्तानान्तरावगमः। सत्यमिष्टमेव
(खो० व्या०) हेतुदोषा उच्यन्ते । तत्र सहोपलम्भनियमादित्ययं तावद् हेतुः । किमित्याह-विपर्ययसाधना(?कत्वाद् विरुद्धः। विपर्ययसाधनत्वं च सह-१५ शब्दस्यार्थान्तरेण विना-विवक्षितार्थमधिकृत्य । किमित्याह-प्रेयोगादर्शनात्, सहोपलम्भादेव कारणाद् भिन्नत्वं नीलस्य । कुत इत्याह-तद्धियः। इति-एवं विपर्ययसिद्धिः। स्यादेतदित्यादि । अथैवं मन्यसे-एकार्थः 'सह'शब्दो वर्तते । तेनैतदुक्तं भवति सहोपलम्भनियमादिति । कोऽर्थ इत्याह-एकोपलम्भनियमात् । किमुक्तं भवति ? एकेनैवोपलम्भादिति यावत् । २० एवं च कृत्वा न विपर्ययसिद्धिरिति-एवमुक्तदोषाभावः । एतदाशक्याहनैतदेवम् । कुत इत्याह-अविचारितरमणीयत्वात् । एतदेवाह तथाहीत्यादिना । तथाहीति पूर्ववत् । एकेन एव उपलम्भादिति कोऽर्थः ? । किं ग्राह्यग्राहकयोः-द्वयोरप्येकेनैव वेदनादित्ययमर्थ उतासम्पृक्तेनैव-असंस्पृष्टेनैव, ज्ञानेनेति प्रक्रमः, ग्राह्यग्रहणादिति? । किश्चातः? उभयथाऽपि दोष इत्याह २५ यदीत्यादिना । यदि ग्राह्य-ग्राहकयोरेकेनैव वेदनमित्यर्थः ततः-एवं सति स एक एवानुभव:-ग्राह्यग्राहकात्मा। इति एवं प्राप्तं बुद्धविज्ञान-पृथग्जनविज्ञानयोग्राह्यग्राहकत्वेन एकत्वम् । न तत्-बुद्धविज्ञानं तस्य-पृथग्जनविज्ञानस्य ग्राहकम् । इति चेत्, एतदाशङ्कयाह-न तेन-बुद्धविज्ञानेन सन्तानान्तरावगमः । सत्यमिष्टमेवेदं यदुत न तेन सन्तानान्तरावगमः । ३०
-
-
१ 'तद्विषयः' इति क-पाठः । २ अप्रयोगा.' इति उ-पाठः । ३ 'स्यादित्यादि' इति ङ-पाठः।
अनेकान्त०८