________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
१०
(मूलम्) युक्तत्वाच । ज्ञानस्य विच्छिन्नार्थग्राहित्वात् तथाऽनुभवभावादुभयभावसिद्धेः प्रत्यक्षविरुद्धः। तथा तद्वैचित्र्यवेदनाद् भेदकमन्तरेण "तदयोगाद् बोधमात्रस्याभेदकत्वात् अनुमानविरुद्धः। “पञ्च बाह्या विविज्ञेयाः" इति वचनात्, अन्यार्थताऽनुपपत्तेः प्रमाणाभावादागमविरुद्धः । सकललोकार्थाङ्गीकरणाद् भेदेनार्थसिद्धेस्तन्निराकरणनैधुण्याल्लोकविरुद्धः। भिन्नशब्दाभिधानाद् भूयस्तदभेदापादनादितरेतरव्याहतेः स्ववचनविरुद्ध इत्यलं प्रसङ्गेन ।
(स्त्रो० व्या०) ज्ञानस्येत्यादिना । ज्ञानस्य विच्छिन्नार्थग्राहित्वात् कारणात् तच्छीलतया तथाऽनुभवभावात् । किमित्याह-उभयभावसिद्धेः-ज्ञानार्थोभयसत्तासिद्धेः प्रत्यक्षविरुद्धः पक्षः, प्रत्यक्षप्रसिद्धार्थापह्नवादिति भावः । तथा तद्वैचित्र्यवेदनात्, प्रक्रमाज्ज्ञानवैचित्र्यवेदनात् , भेदकमन्तरेण तदयोगात्-तद्वैचित्र्यायोगात् १५ बोधमात्रस्य व्यक्त्यन्तरभाविनोऽपि अभेदकत्वाद् बोधमात्रतत्त्वतयाऽनुमानविरुद्धः सामान्यतस्तदपरसिद्धेः कार्यव्यतिरेकादित्यर्थः । तथा पञ्च बाह्याः-रूपादयो द्विविज्ञेयाः-इन्द्रियमनोविज्ञानविज्ञेया इति वचनात् । अस्य च अन्यार्थताऽनुपपत्तेः कल्पनायामपि प्रमाणाभावादन्यार्थतायाम् । किमित्याह-आगमविरुद्ध इति । तथा सकललोकार्थाङ्गीकरणात् तथातद्व्यवहारकरणेन भेदेना२० थसिद्धेः कारणात् तन्निराकरणनैघेण्याद्धेतोलोकविरुद्धः । तथा भिन्ननिमित्तशब्दाभिधानान्नील-तैद्धियोरित्यनेन भूयस्तदभेदापादनात् तदनु तदभेदाभिधानेन । किमित्याह-इतरेतरव्याहतेः। यदि नील-तद्धियो कथमनयोरभेदः ? अथाभेदः कथं नील-तद्धियो ? । इति स्ववचनविरुद्धः पक्ष इत्यलं प्रसङ्गेन ।
(विवरणम्) २५ (१६) सामान्यतस्तदपरसिद्धेरिति । सामान्यतः-सामान्येन तस्मात्-ज्ञानमात्रादपरस्य-कस्यचित् सिद्धेः-निष्पत्तेः, सामान्यत इति । अस्यायमभिप्राय:सामान्येन तावद् विज्ञानमात्रादन्यत् किश्चित् सिद्धम् । तच्च कर्म वा भवतु, अन्यद् वा किश्चिदिति । अत्रैव हेतुमाह-(१६) कार्यव्यतिरेकादिति । कार्यान्यथाऽनुपपत्तेः । ज्ञानवैचित्र्यलक्षणं हि कार्य कथं ज्ञानव्यतिरिक्तापरभेदकभावविरहे भवितुमुत्सहते ?॥ १ 'अन्यार्थानुपपत्तेः' इति ग-पाठः। १ 'अन्यार्थानुप०' इति ऊ-पाठः । ३ 'तद्धिरित्यनेन'
क-पाका