________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) कथं तद्व्यवच्छेदसिद्धिः। सिद्धौ वा प्रमाणसिद्धत्वम् । अप्रमाणसिद्धस्तु न सिद्ध एव परस्यापि । किमस्य व्यवच्छेदसाधनेन?॥ ___ स्यादेतत् प्रमाणसिद्ध इति विभ्रमापोहः सङ्गरार्थः । अत्राप्येतद- ५ निवृत्तिरेव न्यायानुपपत्तिश्च बोधमात्रतत्त्ववादिनो विभ्रमायोगात् भेदकाभावेन कालुष्यासिद्धेः। एवं सन्यायतो ग्रहणाभावात् प्रत्यनीकानवगमेनापोहानुपपत्तेरित्यसुन्दरः पक्षः, प्रत्यक्षविरुद्धादिदोष
(स्वो० व्या०) प्रमाणसिद्धः-प्रत्यक्षादिप्रमाणप्रमितः अप्रमाणसिद्धो वा-असत्कल्पनारूपः १० स्यात् । किञ्चातः ? उभयथाऽपि दोष इत्याह-प्रमाणसिद्धत्वे, प्रक्रमान्नीलतद्धियोर्भेदस्य कथं तद्व्यवच्छेदसिद्धिः, बोधमात्रस्यापि व्यवच्छेदसिद्ध्यापत्तेः । सिद्धी वा-तद्व्यवच्छेदस्य प्रमाणसिद्धत्वं कथं तद्भेदस्य ?। अप्रमाणसिद्धस्तु नील-तद्धियोर्भेदः। किमित्याह-न सिद्ध एव परस्यापि बाह्यार्थवादिनः। किमस्य व्यवच्छेदसाधनेन ? न किञ्चिदित्यर्थः ॥ __ स्यादेतदित्यादि । अथैवं मन्यसे-प्रमाणसिद्धोऽधिकृतभेद इति विभ्रमापोहः सङ्गरार्थः-प्रतिज्ञार्थः, अभेदो नील-तद्धियोरिति । एतदाशझ्याह-अत्रापीत्यादि । अत्रापि-पूर्वपक्षे एतस्य-अनन्तरोदितस्य अनिवृत्तिरेव । स ह्यस्य विभ्रमः प्रमाणसिद्धोऽप्रमाणसिद्धो वेत्येवं योज्यम् ।न्यायानुपपत्तिश्च इत्यभ्युच्चयः। एनामेवाह-बोधमात्रतत्त्ववादिन:-योगाचारस्य विभ्रमायोगात्। अयोगश्च २० भेदकाभावेन-वस्तुसत्कर्माद्यभावेन हेतुना कालुष्यासिद्धेर्योधमात्रतत्त्वस्य । एवं सन्न्यायतो ग्रहणाभावाद् विभ्रमस्य । यदि नामैवं ततः किमित्याहप्रत्यनीकानेवगमेन हेतुनाऽपोहानुपपत्तेभ्रमस्य । विभ्रमावगतौ हि तत्प्रत्सनीकावर्गमतस्तत्तत्प्रयोगात् तदपोहसिद्धिः, नान्यथा इति-एवमसुन्दरः पक्षः । तथा प्रत्यक्षविरुद्धादिदोषयुक्तत्वाच कारणादसुन्दरः पक्ष इति । एतदेवाह २५
(विवरणम्) (२३-२४) तत्प्रत्यनीकावगमत इति । तस्य-विभ्रमस्य प्रत्यनीकोऽविभ्रमस्तत्प्रत्यनीकस्तस्यावगम:-ज्ञानं तस्मात् । इदमुक्तं भवति-चित्तमोहिविभ्रमकारणेषु क्लिष्टकर्मादिषु ज्ञातेषु सत्सु ज्ञायन्ते तानि च परमार्थतः सन्ति न सन्ति भवतां मते, अतः कथं तानि ज्ञायन्ते ? नहि खरविषाणं कश्चिद् वेत्ति । तज्ज्ञानाभावे च कथं विभ्रमो ३० ज्ञायते ? विभ्रमावगमाभावे च कथं तत्प्रत्यनीकस्याविभ्रमस्यावगतिः स्यादिति ॥
१ एवास्यानन्तरो०' इति ङ-पाठः। २ नेवगमेन' इति ङ-पाठः। ३ 'पत्तिविभ्रमस्य' इति -पाठः। ४ 'गमस्तत्प्रयोगात्' इति रु-पाठः ।