________________
५४
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम्) न च खात्मना अननुभवाविशेषे तच्चेतनाचेतनत्वे तेन तत्त्वव्यवस्थितौ कथञ्चिदाधिक्येनाङ्गतां प्रतिपद्येते, परोक्षत्वाविशेषात् ५ खानुमानाप्रवृत्तेः तल्लक्षणायोगात् सर्वध्यन्तराणां तत्तुल्यतासिद्धेः, अतुल्यानुमितौ चान्यस्मिन्नप्यविरोधः सत्त्वादिना कथञ्चित् तथा. तुल्यत्वोपपत्तेः॥
परसिद्धभेदव्यवच्छेदः साध्यार्थ इत्यप्ययुक्तम्, विकल्पानुपपत्तेः। स ह्यस्य प्रमाणसिद्धोऽप्रमाणसिद्धो वा स्यात् । प्रमाणसिद्धत्वे
(स्वो० व्या०) किमित्याह-खसत्तावानेव पदार्थत्वादिति भावना । एतदेव द्रढयन्नाह-न चेत्यादि । न च स्वात्मना-विवक्षितैकविज्ञानापेक्षया अननुभवाविशेषे सति तयोःध्यर्थयोःचेतनाचेतनत्वे स्वगते तेन-स्वमात्रवेदिना तदनुभवरहितेन ज्ञानेन तत्त्व
व्यवस्थितौ सत्यां, ध्यर्थयोरिति प्रक्रमः, कथञ्चित् केनचित् प्रकारेण आधिक्ये१५ न-विशिष्टतया अङ्गतां प्रतिपद्यते चेतनाचेतनत्वे च । कुत इत्याह-परोक्षत्वाविशेषात्। ध्यर्थयोरिति ज्ञानं हि परस्य स्वसंवेदनरूपम् । न च तद् ध्यन्तरं प्रत्यक्षीकरोति नाप्यर्थान्तरम् । एवं च तेन तत्तत्त्वव्यवस्थितौ तवेतनाचेतनत्वे अनुपयोगिनी एवेति भावनीयम् । इत्थं चैतदङ्गीकर्तव्यमित्याह-वानुमानाप्रवृत्तेः ध्यन्तरत्वव्यवस्थितावप्रवृत्तिश्च तल्लक्षणायोगात्-अनुमानलक्षणायोगात् पक्षधर्मत्वाद्यग्रह२० मेन । न च सामान्यतो दृष्टमात्रादतोऽधिकृतज्ञानवदन्यदपि यदस्ति तच्चेतनमेवेति भवति तत्तत्त्वव्यवस्थितिः । कुत इत्याह-सर्वध्यन्तराणां-सन्तानान्तरवर्तिनां तत्तुल्य. तासिद्धेः-अधिकृतज्ञानतुल्यतासिद्धेः स्वानुमानेनेति । अतुल्यानुमितौ च नीलाधपेक्षया बोधमानसामान्यतः । किमित्याह-अन्यस्मिन्नपि, प्रक्रमाद् ध्यन्तरादन्यस्मिन्नर्थेऽपीत्यर्थः, अविरोधः । अनुमितेः निबन्धनमाह-सत्त्वादिना ! २५ 'आदि'शब्दाज्ज्ञेयत्वादिग्रहः, कथञ्चित् केनचित् प्रकारेण तथा-समानबुद्धि
जनकत्वेन तुल्यत्वोपपत्तेः इति ॥ ' पक्षान्तरमधिकृत्याह-परेत्यादि । परप्रसिद्धभेदव्यवच्छेदो नील-तद्धियोः साध्यार्थ इत्यपि परोत्तरमयुक्तम् । कुत इत्याह-विकल्पानुपपत्तेः । इमामेवाह स हीत्यादिना । सः-भेदो नील-तद्धियोः यस्मादस्य-परस्य बाह्यार्थवादिनः
१ 'कथञ्चित् तुल्यः' इति ग-पाठः। २ 'परप्रसिद्धभेदव्यवच्छेदोऽसाध्यार्थ' इति क-पाठः। ३ 'तत्त्वव्यव०' इति ङ-पाठः। ४ 'ध्यन्तरतत्त्वव्यवः' इति उ-पाठः।