________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) न सतः सदन्तरापत्तिरित्यभेदासिद्धिः । असत्त्वान्यतरसत्त्वे च वस्तुधर्मत्वादभेदस्येति। नीला धीरेवेति प्रतिज्ञार्थ इति चेत्, अन्यस्य तद्भावे को विरोधः ? । असतस्तद्भावानुपपत्तिरिति चेत्,५ स्यादेतत् तदसत्वसिद्धौ । अननुभवात् तत्सिद्धिरेवेति चेत्, भवेदियं ध्यन्तराभावे, तत् स्वानुभवचदेवेति चेत्, अन्योऽपि स्वसत्तावानेच ।
(खो० व्या०) उभयथाऽपि दोष इत्याह-सत्वे नील-तद्धियोः किमित्याह-न सत एकस्य सदन्तरापत्तिरिति कृत्वा । किमित्याह-अभेदासिद्धिः। न हि सत् सदन्तरं १० भवति । द्वितीयं विकल्पमधिकृत्याह-असत्त्वं चान्यतरसत्वं च, नील-तद्धियोरिति प्रक्रमः, असत्त्वान्यतरसत्त्वं तसिंश्चाभेदासिद्धिः । कुत इत्याह-वस्तुधर्मत्वादभेदस्येति। तन्नायमुभयान्यतराभावे । नीला धीरेवेति प्रतिज्ञार्थः अभेदार्थः । इति चेत्, एतदाशङ्ख्याह-अन्यस्येत्यादि । अन्यस्य-धियो भिन्नस्य तद्भावे-नीलभावे को विरोधः? न कश्चिदित्यर्थः । असत इत्यादि । असतः १५ अन्यस्य तद्भावानुपपत्तिः-नीलत्वानुपपत्तिः । इति चेत्, एतदाशझ्याहस्यादेतदित्यादि । स्यादेतत्-अनन्तरोक्तं तदसत्त्वसिद्धौ धियोऽन्यस्यासत्त्वसिद्धौ । अननुभवादिति । अननुभवात् कारणाद् धियोऽन्यस्येति प्रक्रमः, तत्सिद्धिरेव-तदसत्त्वसिद्धेः सिद्धिरेव । इति चेत्, एतदाशझ्याह-भवेदित्यादि । भवेदियं-तत्सिद्धिय॑न्तराभावे, अधिकृतधियोऽन्या धीः ध्यन्तरं तदभाव इत्यर्थः, २० तदपि नानुभूयत एवेति कृत्वा । तदित्यादि । तत्-ध्यन्तरं स्वानुभववदेव ध्यन्तरत्वात् । इति चेत्, एतदाशयाह-अन्योऽपीत्यादि । अन्योऽपि धियः नीलादिः ।
(विवरणम्) (१२) तस्मिंश्चाभेदासिद्धिरिति । यदि हि नीलस्य बाह्यवस्तुनोऽसत्त्वमभ्युपगम्य नीलधिया सहाभेदः साध्यते, तदा न सिद्धयत्येवासौ, वस्त्ववस्तुनोरभेदासिद्धेः । २५ न हि खरविषाणस्य केनचिद् घटादिना पदार्थेन सहाभेदः कापि साध्यत इति ॥
(१३) तन्नायमुभयान्यतराभावे इति । तत्-तस्मान्नैवायम्-अभेदो भवति । कस्मिन् सतीत्याह-उभंयस्य- नीलविषयनीलबुद्धिलक्षणस्य युग्मस्य मध्यादन्यतरस्थएकस्य कस्यचिदभावे-तुच्छत्वे सति ॥
१ 'प्रतिज्ञार्थत्वात्' इति क-पाठः। २ 'नीलादि' इति ङ-पाठः। ३ 'नीलविभ्रमनील.' इति
ख-पाठः।