________________
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम् ) तथा
"दर्शनोपाधिरहितस्याग्रहात् तद्हे ग्रहात् ।
दर्शनं नीलनिर्भासं नार्थों बाह्योऽस्ति केवलः ॥" इत्याद्यपि यदुच्यते परैस्तत् प्रतिक्षिप्तमेव, विच्छिन्नार्थग्रहणख. भावसंवेदनवेदनपक्षेऽस्यानवकाशत्वात् । विच्छिन्नार्थग्रहणमर्थप्रत्यक्षीकरणं तत्स्वभावविज्ञानानुभवे सति अर्थप्रत्यक्षतयोभयभावसिद्धेरनवकाशत्वमिति ॥ १० किश्चेदमयुक्तिसङ्गतमेव। तथाहि-अत्र नील-तद्धियोरभेदः साध्यः सहोपलम्भनियमेन । सोऽयमनयोः सतोरसतोर्वा साध्येत । सत्त्वे
(स्वो० व्या०) अभेदो नील-तद्वियोः-नील-नीलबुद्ध्योर्द्विचन्द्रादिवदिति निदर्शनं, तथा दर्शनोपाधिरहितस्य-दर्शनविशेषणशून्यस्य अग्रहात् कारणात् तद्हे१५ दर्शनोपाधिग्रहे ग्रहात् । किमित्याह-दर्शनं नीलनिर्भासं-नीलाकारं नार्थो . बाह्योऽस्ति नीलादिः केवल इत्याद्यपि यदुच्यते परैः-विज्ञानवादिभिः तत् प्रतिक्षिप्तमेव-निराकृतमेव । कुत इत्याह-विच्छिन्नार्थग्रहणस्वभावसंवेदनवेदनपक्षेऽस्य परोदितस्य । किमित्याह-अनक्काशत्वात् कारणात् । तत्र विच्छिन्नार्थग्रहणमर्थप्रत्यक्षीकरणं तत्स्वभाव विज्ञानानुभवे सति-अर्थ२० प्रत्यक्षतास्वभावविज्ञानानुभवे सति अर्थप्रत्यक्षतया कारणेन उभयभावसिद्धेःअर्थज्ञानद्वयसत्तासिद्धेः। किमित्याह-अनवकाशत्वमनन्तरोदितस्येति भावनीयम्।।
किश्चेदमित्यादि । किञ्चेदं-संवेदनमनन्तरोदितं अयुक्तिसङ्गतमेव । कथं न युक्तिसङ्गतमित्याह-तथाहीत्यादि । तथाहि-अत्र-अनन्तरोदिते नील-तद्धियोरभेदः साध्यः। केन हेतुनेत्याह-सहोपलम्भनियमेन । सोऽयम्-अभेदः २५ अनयोः-नील-तद्धियोः सतो:-विद्यमानयोरसतोर्वा साध्येत । किञ्चातः ?
(विवरणम्) - (१३) द्विचन्द्रादिवदिति निदर्शनमिति । यद् येन सहोपलभ्यते तत् तस्मादभिन्नमभ्युपेयं यथा चन्द्रद्वितयम् , शशधरयुग्मज्ञानात् । उपलभ्यते च नीलादिः पदार्थो नीलादिबुद्ध्या सहेति स्वभावहेतुः ॥ ३० (१४) दर्शनविशेषणशून्यस्येति । दर्शनं ज्ञानं तदेव विशेषणम् , ज्ञेयस्य विशेषकत्वात् , तेन शून्यस्य । ज्ञानलक्षणे प्रतीयमाने एवार्थः प्रतीयत इत्यर्थः ।
१ अनुष्टुप् । २ 'भावे' इति क-पाठः।