________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) कथञ्चित् तदवगमे कः खलु तथैवार्थे तद्विरोधः?। अर्थस्यैवाभावादिति चेत्, कुतस्तदभावनिश्चयः । ज्ञानानुभवादिति चेत्, । केन ज्ञानान्तरानुभवः ? । ज्ञानत्वात् तेनैवेति चेत्, किमत्र भवतः ५ प्रमाणम् ? । लोकानुभव एवेति चेत्, नासौ नार्थेऽपीति चिन्त्य ताम् । न चार्थी युक्तिवाधित इति न्याय्यम्, तथाविधयुक्त्यभावात् । न चाभिहिता एव तास्तथाविधा इति, तासां जातियुक्तित्वात् । न चैतद् वचनमात्रमेव, तद्भावस्य दर्शितत्वात् । न चैवं भूताज्ञानेऽपि न सन्ति, प्रायः सर्वत्रगत्वादिति। तच्च वक्ष्यामः॥ १० __एतेन "सहोपलम्भनियमादभेदो नील-तद्धियोः द्विचन्द्रादिवत्"
(खो० व्या०) कथञ्चित्-तत्स्वभावत्वादिना तदवगमे-सन्तानान्तरावगमे कः खलु तथैवतेनैव प्रकारेण अर्थे-रूपादौ तद्विरोधः-अवगमविरोधः? । अर्थस्यैवाभावात् इति चेत् अवगमविरोधः । एतदाक्याह-कुतस्तदभावनिश्चय:-अर्थाभाव- १५ निश्चयः ? ज्ञानानुभवात् एव इति चेत्, न तद्वदर्थोऽनुभूयत इत्यभिप्रायः। एतदाशक्याह-केन ज्ञानान्तराँनुभवः, केनचित् सन्तानान्तरवर्तिन इति भावः। ज्ञानत्वात् तेनैवेति चेत्, एतदपि स्वसंविदितमेवेति भावना । एतदाशङ्कयाहकिमत्र भवतः प्रमाणम् ? न किञ्चित् तत्त्वनीत्येति भावः । लोकानुभव : एवेति चेत् प्रमाणम् । एतदाशङ्कयाह-न असौ-लोकानुभवो नार्थेऽपीति २० चिन्त्यताम् । किं तर्हि ? ज्ञानान्तरे इवास्त्येव । इहैव भङ्ग्यन्तरमाह-न चार्थो युक्तिबाधित इति न्याय्यम् , वच इति शेषः । कुत इत्याह-तथाविधयुत्तयभावात्-अर्थवाधिकाया युक्तेः अभावात् । न चाभिहिता एव पूर्व ता:-युक्तयः तथाविधाः-अर्थबाधिका इति । कुत इत्याह-तासां जातियुक्तित्वादभिहितयुक्तीनाम् । न चैतद् वचनमात्रमेव तासां जातियुक्तित्वम् । २५ कुत इत्याह-तद्भावस्य-जातियुक्तिभावस्य दर्शितत्वात्। न चैवं भूताज्ञानेऽपि न सन्ति जातियुक्तयः, किन्तु सन्त्येव । कुत इत्याह-प्रायः सर्वत्रगत्वात् जातियुक्तीनामिति । एतच्च-सर्वत्रगत्वं जातियुक्तीनां वेश्याम अर्वमिति ॥
एतेनेत्यादि । एतेन-अनन्तरोदितेन ग्रन्थेन सहोपलम्भनियमात् हेतोः १ 'युक्तत्वात्' इति ग-पाठः। २ 'तत्तत्वभाव०' इति उ-पाठः। ३ 'रानुभवेन केन' इति क-पाठः। ४ 'भावः न केन०' इति उ-पाठः। ५ 'जात्या' इत्यधिको उ-पाठः ।