________________
५०
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम् ) प्रत्यासत्तेः सनिबन्धनत्वात् । इति बोधस्याविशेषतः सुप्तकल्पत्वमसिद्धम् , अर्थक्षयोपशमसन्निधानजस्योक्तवद् वैशिष्ट्यसिद्धेरिति ॥ ५. स्यादेतदेवमप्यात्ममात्रवेदिना व्यतिरिक्तवेदनमयुक्तमेव । सत्यमयुक्तं तद्वत् तद्भावेन, न पुनजस्त्या, ज्ञानान्तराज्ञानप्रसङ्गात् । एवं च न सन्तानान्तरावगम इति चिन्त्यतां देशनादेविषयः, यथा
(स्वो० व्या०) मात्रस्य-ज्ञानसत्तामात्रस्य । किमित्याह-सर्वत्राविशेषः, किन्तु विशेष एव । १० कथमित्याह-तत्तथाखभावत्वेन तयोरेव-ज्ञानार्थयोविशिष्टयोस्तथास्वभावत्वेन
उक्तप्रकारप्रतिनियतस्वभावत्वेन हेतुना प्रत्यासत्तेः कारणात् सनिबन्धनत्वात् । इति-एवं बोधस्याविशेषतः सुप्तकल्पत्वमसिद्धम्, अर्थक्षयोपशमसन्निधानजस्य एव उक्तवत्-यथोक्तं तथा वैशिष्ट्यसिद्धेरिति ।
स्यादेतदेवमपि उक्तनीत्या आत्ममानवेदिना, ज्ञानेनेति प्रक्रमः, व्यति१५ रिक्तवेदनमयुक्तमेव, व्यतिरिक्तश्वार्थ इति हृदयम् । एतदाशङ्कयाह
सत्यमयुक्तम् । कथमित्याह-तद्वत्-ज्ञानवत् तद्भावेन-ज्ञानसत्तयैव, न पुनहत्या-ज्ञानेन । अयुक्तं व्यतिरिक्तवेदनम् । कुत इत्याह-ज्ञानान्तराज्ञानप्रसङ्गात् । एवं च ज्ञानान्तराज्ञाने सति न सन्तानान्तरावगम इति-एवं चिन्त्यतां देशनादेविषयः, देशनाज्ञानस्य प्रवृत्त्यादिज्ञानस्य चेत्यर्थः । यथा
(विवरणम् ) (१६-१७) तद्वत्-ज्ञानवत् तद्भावेन-ज्ञानसत्तयैव, न पुनर्जप्त्येति । यथाहिज्ञानं स्वात्मानं तद्भावेन-ज्ञानसत्तयैव ज्ञायमानाकारैकत्वपरिणेत्येत्यर्थः, परिच्छिनत्ति, तथैव यदि बाह्यमर्थ परिच्छिन्द्यात् , स्यात् तदाऽयं भवदुक्तो दोषः । यदा तु ज्ञप्त्या
घटादिपदार्थप्रतिबद्धज्ञायमानत्वधर्मलक्षणया अर्थपरिच्छेदं करोति ज्ञानं, तदोप२५ पद्यत एव स्वात्मवेदिनोऽपि तस्य बाह्यार्थवेदनमिति ॥ .... (१९) देशनाॉनस्य चे(?)ति । देशनायां ज्ञानं देशनाज्ञानं कथं कस्य यद् भवति
यद्धि यस्मै च दिश्यते यच्च दिश्यते तयोर्ज्ञाने सति सम्भवति । यदा तु ज्ञानं सन्तानान्तरावगमं प्रति नियापारमेव, तदा कथं देशना ? तथा प्रदर्शकप्रवर्तकप्रापकज्ञानानामपि को विषयः परसन्तानानवगमे सति इति सम्यक् पर्यालोच्य मुच्यतां कदाग्रहः ।।
१ तथा' इति क-पाठः । २ ‘णतेत्यर्थः' इति ख-च-पाठः। ३ 'यदि वा खमर्थ इति ख-पाठः। ४ 'परिच्छिन्द्या स्यात्' इति च-पाठः । ५ 'यदाऽनुज्ञात्या' इति क-पाठः। ६ 'ज्ञानस्य वेदेति' इति च-पाठः। ७ 'कथयस्य यद्' इति ख-पाठः; च-पाठस्तु 'कथय स्वयद्भवद्भि तद्धियस्यैव दिस्यते'। ८ 'देशानां तथा' इति क-पाठः ।