________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) त्राविशेषात् , प्रत्यासत्तेरनिबन्धनत्वात् तस्य सुप्तादिकल्पत्वादिति, एतदुपन्यासमात्रफलमेव, तथाऽर्थाकारताऽनभ्युपगमात्, यथाऽभ्युपगमं तु जडरूपतासिद्धेः, तदर्थग्रहणपरिणामस्यैवार्थाकार- ५ त्वात् , अन्यथा तदनुपपत्तेः, अर्थलेशस्य कस्यचित् तत्रानुप्रवेशायोगादिति निर्लोटितमिदं सर्वज्ञसिद्धौ । यदा च तस्यैवार्थग्रहणशक्तिराकारस्तदा न तदाकारत्वाभाव इति कथं प्रतिकर्मव्यवस्थाऽ. नुपपत्तिः १ निबन्धनोपपत्तेः, तयोरेव तत्स्वभावत्वेन तच्छक्तिविशेषभावादिति । यद् यद् ग्रहणशक्तिमत् तदेव तद्राहकमितरदेव च तबाह्यमिति न तत्सत्तामात्रस्य सर्वत्राविशेषः तत्तथाखभावत्वेन
(स्थो० व्या०) यदुक्तं पूर्वपक्षग्रन्थे-अथार्थाकारमित्यादि यावत् तस्य सुप्तादिकल्पत्वादिति, एतत्-पूर्वपक्षग्रन्थोक्तम् । किमित्याह-उपन्यासमात्रफलमेव, निरर्थकमित्यर्थः । कथमित्याह-तथा-तेनोक्तदूषणप्रकारेण । किमित्याह-अर्थाकारताऽन-१५ भ्युपगमात् ज्ञानस्य । यथाऽभ्युपगमं तु-यथाऽभ्युपगमं पुनराकारतायाः तथा जडरूपतासिद्धेः, ज्ञानस्यैवेति प्रक्रमः । एनामेवाह-तदर्थग्रहणपरिणामस्यैव तस्येति विज्ञानस्य अर्थग्रहणपरिणामस्तस्यैव अर्थाकारत्वाद् विज्ञानस्य अन्यथा-एवमनभ्युपगमे तदनुपपत्तेः-अर्थाकारताऽनुपपत्तेर्विज्ञानस्य । अनुपपत्तिश्च अर्थलेशस्य कस्यचित् तत्र-विज्ञानेऽनुप्रवेशायोगात्। न च तच्छून्य-२० स्यार्थग्रहणपरिणामाते तदवस्थस्य ज्ञानस्यार्थीकारता नामेति भावनीयमेतदिति निलोठितमिदं सर्वज्ञसिद्धौ । यदा च तस्यैव-विज्ञानस्य अर्थग्रहणशक्तिः स्वगतैवाऽर्थाकारस्तदा न तदाकारत्वाभाव:-अर्थाकारत्वाभाव इति-एवं कथं प्रतिकर्मव्यवस्थाऽनुपपत्तिः? किन्तूपपत्तिरेव । कथमित्याहनिबन्धनोपपत्तेः तदर्थग्रहणशक्तिरेव निबन्धनम् । एतदेवाह तयोरेवेत्यादिना । २५ तयोरेव, प्रक्रमात् ज्ञानार्थयोः तत्स्वभावत्वेन हेतुना तच्छक्तिविशेषभावात् तयोः-ज्ञानार्थयोः शक्तिविशेषभावात् । भावार्थमाह यद् यदित्यादिना। यज्ज्ञानं यद् ग्रहणशक्तिमत् नीलाद्यपेक्षया तदेव-ज्ञानं तद्वाहक-नीलादिग्राहकं इतरदेव च-नीलादि तन्द्राह्यं तस्य-ज्ञानस्य विशिष्टस्यैव ग्राह्यमिति एवं न तत्सत्ता
१ 'कल्पवादिति' इति क-पाठः । २ 'तत्तत्सत्ता' इति क-पाठः । ३ 'सर्वथा विरोधः तत्तथा' इति क-पाठः। ४ दशमे पृष्ठे ।
अनेकान्त. ७