________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
वगम इति चेत्, नात्र प्रमाणम्, अन्यत्र पक्षपातात् । अपि च येन तेन प्रकारेणैतदवगमेऽस्य च तथाभावगतावर्धतो ग्राहकाकारादयो ५ नियमेन, अन्यथोभयायोगांदिष्टासिद्धिः । बोधमात्रतत्त्ववादिनश्च सर्व तद्भावे तदधिकाभावेनोप प्लवा सिद्धेश्चेति प्रपञ्चयिष्यामः । कथमनयोर्भ्रान्तेतर भेदावसायः ? सत्क्षयोपशमादितः अनाविलानुभवसंवादादेरा विद्वदङ्गनादिलोक सिद्ध एवेति । एवं च यदुक्तम्- 'अथार्थाकारं जडरूपताऽस्य, अन्यथा तदाकारत्वाभावः, अनाकारत्वे तु १० प्रतिकर्मव्यवस्थानुपपत्तिः, निबन्धनाभावात्, तत्सत्तामात्रस्य सर्व(खो० व्या० )
विकलस्य तत्तदवगमायोगात् तयोः - अधिकृतज्ञानयोः भ्रान्तेतरत्वावगमायोगात् । अचिन्त्या योगिनां शक्तिरिति कृत्वा अवगम इति चेत्, अधिकृतज्ञानयोर्भ्रान्ततरभावस्येति सामर्थ्यम् । एतदाशङ्कयाह - नात्र - अनन्तरोदिते वस्तुनि प्रमाणम्, १५ अन्यत्र पक्षपातात् - पक्षपातं मुक्त्वा | अभ्युच्चयमाह अपि चेत्यादिना । अपि च येन तेन प्रकारेण - अचिन्त्यया चिन्त्यया वा शक्त्या एतदवगमे, प्रक्रमादधिकृतज्ञानयोर्भ्रान्तेतरत्वावगमे योगिज्ञानेन अस्य च - योगिज्ञानस्य तथाभावगतौअधिकृतज्ञानयोर्भ्रान्ततरव्यवस्था कारित्वावगताविति प्रक्रमः । किमित्याह - अर्थतः - सामर्थ्याद् ग्राहकाकारादयो नियमेन - अवश्यन्तया येन केनचित् प्रकारेण २० गृह्णाति तदसावस्य ग्राहकाकारः, येन च तदेवम्भूतमिति ज्ञायते स पुनर्ग्राह्याकार इति । इत्थं चैतदङ्गीकर्तव्यमित्याह - अन्यथा - एवमनभ्युपगमे उभयायोगात् तेन तदवगमस्तत्तथाभावावगमश्चेत्युभयं तदयोगादिष्टासिद्धिर्भवत इति भावनीयम् । अभ्युच्चयमाह - बोधमात्रतत्त्ववादिनश्च - वादिनः सर्वत्र भ्रान्तेतरज्ञान - योस्तद्भावे सति - बोधमात्रभावे सति । किमित्याह - तदधिकाभावेन हेतुना २५ उपप्लवा सिद्धेश्च इष्टासिद्धिः इति प्रपञ्चयिष्याम ऊर्द्धम् । पर आहकथमनयोः - यथार्थयथार्थयोरधिकृतज्ञानयोर्भ्रान्तेतर भेदावसायः - भ्रान्ताभ्रान्तविशेषावगमः ? । अत्रोत्तरम् - सत्क्षयोपशमादितः कारणात् । 'आदि'शब्दाच्छुभोदयग्रहः अनाविलानुभवसंवादादेः, दृढानुभवसंवादादेरित्यर्थः । आविद्वदङ्गनादि लोक सिद्ध एव तयोर्भ्रान्तेतर भेदावसाय इति । एवं च सति
४८
[ पचमः
१ 'नान्यथो' इति ग-पाठः । २ 'दिष्टसिद्धिः' इति ग-पाठः । ३ द्रष्टव्यं दशमं पृष्टम् । ४ 'रूपता स्यादन्यथा तथाकार०' इति ग-पाठः । ५ ' योगिज्ञानयोर्भ्रान्तेतरत्वागमे' इत्यधिकः क-पाठः । ६ 'एवानयोर्भ्रान्तेतर ० ' इति ङ-पाठः ।