________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) विज्ञानवेदनोपपत्तेयंत्किञ्चिदेतदिति परिभावितमेव । न परिभावितम्, तत्तदाभासविवेकानवगतेः । इह यदसत्यप्यर्थे खमादिज्ञानं तत्तदाभासम्, अतोऽन्यदू यथार्थमेव, अन्यथा भ्रान्तेतरव्यवस्थाऽ- ५ योगा, भेदकहेत्वभावात्। स्यादेतत् पृथग्जनज्ञानमखिलं भ्रान्तमेव, ग्राह्यग्राहकाकारोपप्लवरूपत्वात्, अभ्रान्तं तु तद्विकलं योगिनामिति न भ्रान्तेतरव्यवस्थाऽयोगो भेदकहेत्वभावश्च । एतदप्यसत्, प्रमाणाभावात्, योगिज्ञानप्रमाणत्वे तद्यथोक्तत्वाभावा, ग्राहकाकाराद्यापत्ते, तद्विकलतत्तदवगमायोगात् । अचिन्त्या योगिनां शक्तिरित्य-"
(खो० व्या०) ग्रहणरूप विज्ञानवेदनोपपत्तेः यत्किञ्चिदेतत्-अनन्तरोदितमिति परिभावितमेव । एतदाशङ्याह-न परिभावितम् । कुत इत्याह-तत्तदाभासविवेकानवगतेः। तदित्यनेनाधिकृतयथार्थज्ञानग्रहः, तदाभासत्वं-यथार्थ खनादिज्ञानं अनयोविवेकानवगतेः कारणान्न परिभावितमिति । एतद्भावनायैवाह-१५ इहेत्यादि । इह-लोके यदसत्यप्यर्थे बाह्ये स्वभादौ-स्वप्ने तिमिरभावे च ज्ञानं भवति, तत्तदाभासं-यथार्थाभासम् , अयथार्थ, भ्रान्तमित्यर्थः । अत:-तदामासात् अन्यद् यत् सत्यर्थे जायते तिमिराद्यभावे च तद् यथार्थम्-अभ्रान्तमेव नियमतः । अन्यथा-एवमनभ्युपगमे किमित्याह-भ्रान्तेतरव्यवस्थाऽयोगःभ्रान्ताभ्रान्तव्यवस्थाऽयोगः । कुत इत्याह-भेदकहेत्वभावात् । पराभिप्रायमाह २० स्यादेतदित्यादिना । स्यादेतत्-पृथगजनज्ञान-तत्वपृथग्भूतसत्त्वज्ञानं अखिलं भ्रान्तमेव-एकान्तेन । कुत इत्याह-ग्राह्यग्राहकाकारोपप्लवरूपत्वात्, असदभिनिवेशवदिति कृत्वा । अभ्रान्तं पुनर्ज्ञानं तद्विकलं-ग्राह्यग्राहकाकारोपप्लवरूपविकलं योगिनां-वीतरागाणामिति-एवं न भ्रान्तेतरव्यवस्थाऽयोगः, किन्तु योग एव, भेदकहेत्वभावश्च न, किन्तु भेदकहेतुरपि ग्राह्याधुपप्लवरूपोऽस्त्ये २५ वेति अभिप्रायः । एतदाशयाह-एतदपि-अनन्तरोदितमसत्-अशोभनम् । कुत इत्याह-प्रमाणाभावात् । नाधिकृतार्थव्यवस्थाकारि तात्त्विकं प्रमाणमस्तीत्यर्थः । योगिज्ञानं प्रमाणमित्यारेकानिरासायाह-योगिज्ञानस्य प्रमाणत्वं तस्मिन्नभ्युपगम्यमाने । किमित्याह-तद्यथोक्तत्वाभावः तस्य-योगिज्ञानस्य यथोक्तत्वाभावः। कुत इत्याह-ग्राहकाकाराद्यापत्तेः। आपत्तिमेवाह-तद्विकलस्य-ग्राहकाकारादि-३०
१ 'भयं च' इति क-पाठः ।