________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
ङ्गादिति, न, बोधमात्रतत्त्वस्यैव तथास्वभावत्वात्, अर्थक्षयोपशमसनिधानतः तथा तथा चैतन्यविक्रियोपपत्तेः खखभावनियतात्मकत्वे५ प्रयोक्तार्थाविरोधात्, तच्छक्तिवैचित्र्यात्, तथाविधत च्छक्तेरेव च ततोऽर्थोपरागत्वात्, अधिकयोगाभावेनान्यथा तदसिद्धेः । इत्यर्थक्षयोपशमसन्निधानस्यैव नियमहेतुत्वापत्तेः अतिप्रसङ्गदोषोऽप्यनवकाश एव, तथाविशिष्टविच्छिन्नार्थग्रहण रूपविज्ञानवेदनाच्च । इति विशिष्टचैतन्यविक्रियाज्ञानपक्षे न कश्चिदू दोषः परिभाव्यतामेतत् ॥ * स्यादेतदसत्यप्यर्थे स्वप्नादिषु तथाविशिष्टविच्छिन्नार्थग्रहणरूप( स्वो० व्या० )
४६
[ पञ्चमः
योगात् - अर्थग्रहणरूपत्वायोगात् । अयोगश्च नियमहेत्वनुपपत्तेर्नीलाद्यर्थग्रहणरूपतया सर्वथाऽसंस्पर्शितयेति भावः । अनुपपत्तिमेवाह- अतिप्रसङ्गादिति । अर्थानुपरक्तमपि नीलार्थग्रहणरूपं न पीतार्थग्रहणरूपमित्यतिप्रसङ्गः । एतदाशङ्कयाह१५ न, बोधमात्रतत्त्वस्यैव । किमित्याह - तथास्वभावत्वात् - अर्थग्रहणस्वभावस्वात् । तथास्वभावत्वं च अर्थक्षयोपशमसन्निधानतः । अर्थश्व क्षयोपशमश्र तयोः सन्निधानं ततः । तथा तथा चित्ररूपतया चैतन्यविक्रियोपपत्तेः स्वस्वभावनियतात्मत्वेऽप्यस्य - विज्ञानस्य उक्तार्थाविरोधात्, तद्वेदनस्यैव तपत्वाविरोधादित्यर्थः । अविरोधश्च तच्छक्तिवैविध्यात्, प्रक्रमाद् बोधमात्र२. तत्त्वस्यैव शक्तिवैचित्र्यात् तथाविधतच्छतेरेव च - विशिष्टाया बोधमात्रतत्त्वशक्तेरेव च तत्त्वतः - परमार्थेन अर्थोपरागत्वात् । अधिकयोगाभावेनउपरञ्जकसम्बन्धाभावेन अन्यथा तदसिद्धेः - अर्थोपरागत्वासिद्धेः । नेति सर्वत्र क्रियायोगोऽनुवर्तते, न, बोधमात्रतत्त्वस्यैव तथास्वभावत्वादित्यतः । इलि एवं अर्थक्षयोपशम सन्निधानस्यैव नियमहेतुत्वोपपत्तेः कारणात् अति२५ प्रसङ्गदोषोऽप्यनवकाश एव य उक्तः पूर्वम्, तथाविशिष्टविच्छिन्नार्थग्रहणरूपविज्ञानवेदनाच कारणात् । इति एवं विशिष्टचैतन्यविक्रियाज्ञानपक्षे । किमित्याह-न कश्चिद् दोष इति परिभाव्यतामेतत्अनन्तरोदितमिति ॥
स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे -असत्यप्यर्थे खमादिषु, 'आदि'३० शब्दात् तैमरिककेशग्रहः, तथा - बहिर्मुखावभासितया विशिष्टविच्छिन्नार्थ
१ 'अयोगो नियम ० ' क- पाठः २ 'मात्रत्वस्यैव' इति ङ-पाठः । ३ तमे पृष्ठे ।