________________
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम् )
चोक्तम्'-' न चार्थे सत्यपि तद्ब्रहणोपायः समस्ति, युक्त्तययोगात् । स हि संवेदनग्राह्यः स्यात् । तच्च साकारमनाकारं वा । साकारत्वेऽपि स्वाकारं विषयाकारं चेति । यदि खाकारं तमेव तद् वेदयते । कथमने ५ नार्थी गृहीतो नाम' इति । एतदप्ययुक्तम्, तदर्थग्रहण परिणामस्यैव खाकारत्वादर्थग्रहण परिणामता चास्य तथाप्रतीते बधमात्रावेदनात् । सति चास्मिन् कथमनेनार्थो न गृहीतो नाम ? तद्वेद नस्यैव तद्रूपत्वात् । तत्स्वाकारवेदनमेव अर्थग्रहणरूपं तथाप्रतीतेरिति ॥
अधिकारः ]
४५
आह-वचनमात्रमेतत्, बोधमात्रतत्त्वस्य स्वभावनियतात्मनो - " suनुपरक्तस्य तद्ब्रहणरूपत्वायोगात्, नियम हेत्वनुपपत्तेः, अतिप्रस
( खो० व्या० )
यचोक्तमित्यादि । यच्चोक्तं पूर्वपक्षग्रन्थं एव । किमित्याह - न चार्थे सत्यपि तग्रहणोपायः - अर्थग्रहणोपायः समस्ति - विद्यते । कुत इत्याह-युक्तययोगात् । अयोगमाह स हीत्यादिना । स यस्मादर्थः संवेदनग्राह्यो भवेत् । तब - १५ संवेदनं साकारमनाकारं चेति विकल्पद्वयम् । साकारत्वेऽपि सति स्वाकारं विषयाकारं वेति विकल्पद्वयमेव । इह दोषमाह यदीत्यादिना । यदि स्वाकारं विज्ञानं ततः किमित्याह - तमेव - स्वाकारं तत्- विज्ञानं वेदयते । कथमनेन-विज्ञानेनात्मवेदिनाऽर्थो गृहीतो नामेति । । एतदपि - पूर्वपक्षोदितमयुक्तम् । कथमित्याह - तदर्थेत्यादि । तस्य - विज्ञानस्यार्थग्रहणपरिणामः तदर्थ - २० ग्रहणपरिणामः तस्यैव स्वाकारत्वात् कारणात् अर्थग्रहणपरिणामता चास्य तथाप्रतीतेः - बहिर्मुख । वभासितयाऽनुभवात् । इत्थं चैतदङ्गीकर्त्तव्यमित्याह - बोधमात्रा वेदनात् । नार्थग्रहणगर्भविकलं बोधमात्रं वेद्यत इत्यनुभवः । सति चेत्यादि । सति च अस्मिन् तदर्थग्रहणपरिणामे कथमनेन-विज्ञानेन अर्थों
गृहीतो नाम ? किन्तु गृहीत एव । कुत इत्याह- तद्वेदनस्यैव प्रक्रमात् २५ स्वाकारवेदनस्यैव तद्रूपत्वात् - अर्थग्रहण रूपत्वात् । एतदेव भावयति - तत्खा - कारवेदनमेव - विज्ञान वा कारवेदनमेव तैस्मादर्थग्रहणरूपं तथाप्रतीतेरिति ।
आह-वचनमात्रमेतत् - अनन्तरोदितम् । कुत इत्याह-बोधमात्रतस्वस्थबोधमात्रस्वरूपस्य स्वभावनियतात्मनः तदतिरिक्तायोगेन अर्थानुपरक्तस्य अर्थेनानुपरक्तमर्थानुपरक्तं तस्यैवम्भूतस्य सतो विज्ञानस्य तद्ग्रहणरूपत्वा- ३०
१-२ नवमे पृष्ठे दशमे च । ३ ' यस्मादर्थ ०' इति उ-पाठः ।