________________
अनेकान्तजयपताकाख्यं प्रकरणम् [पश्चमः
(मूलम्) बाधकम् । न हि तत्वभावतया तेषामेव तथाभावस्तद्भिन्नदेश
उपादानशून्यो वा, कथञ्चित् तदव्यतिरेकात्, हेतूनां च परनीत्या ५ खभावनियतत्वेन तत्त्वतोऽहेतुत्वोपपत्तेः । एवं तुलानतिविशेषाग्रहणमपि न दोषकृत्, तत्वतो विशेषाभावात् , तेषामेव तथापरिणतेः धर्मोत्पादव्ययभावेऽपि वस्तुनस्तुल्यत्वात्। एवं चने चासाबमूतॊऽग्रहणप्रसङ्गात्' इत्यपि यथोक्तावयविवादिनो न बाधायै तत्तथाभावस्य तदेकत्वपरिणामतया तथाविकल्पनायोगादिति ।।
(खो० न्या०) प्रक्रमः, अवृत्तेरधिकृतैकत्वपरिणामस्य । नायमवयवी सर्वथा अवयवेभ्यो भिन्न एवेति कथं तद्दोषसम्भव इति भावना । तथा भिन्नदेशस्य चाग्रहणादित्यपि पूर्वपक्षोदितमनङ्गीकरणाद् हेतोः । किमित्याह-अबाधकम् । एतद्भावनायाह न ही
त्यादिना । न यस्मात् तत्वभावतया तेषामेव तथाभाव:-अनन्तरोदित१५ स्वरूप एकत्वपरिणाम इत्यर्थः, तद्भिनदेश:-अण्वाद्यवयवभिन्नदेश उपादान
शून्यो वा। कुत इत्याह-कथञ्चित् केनचित् प्रकारेण तदव्यतिरेकात्, तथाभाविनामण्वादीनामभेदादिति भावः । दूषणान्तरमाह-हेतूनां च अण्वादीनां परनीत्या-वैशेषिक-न्यायतः स्वभावनियतत्वेन-नियततया तत्त्वतःपरमार्थेन अहेतुत्वोपपत्तेः । न ह्यधिकृतखभावान्तरस्य हेतव इति भावनीयम् । २० एवम्-उक्तनीत्या तुलानतिविशेषाग्रहणमपि पूर्वपक्षोक्तं न दोषकृत्-न दोषकरणशीलम् । कथमित्याह-तत्त्वतो विशेषाभावाद् यथोदितैकत्वपरिणामे । कुत इत्याह-तेषामेव-अण्वादीनां तथा-एकत्वेन परिणतः । तथापि धर्मोत्पादव्ययौ स्त एव तत्र इत्यारेकानिरासायाह-धर्मोत्पादव्ययभावेऽपि सत्यण्वादीनां वस्तुनस्तुल्यत्वात् तत्स्वभावतयैव । एवं च न चासावमूर्तोऽवयवी २५ अग्रहणप्रसङ्गादित्यपि पूर्वपक्षोक्तं यथोक्तावयविवादिनः, अनन्तरोक्तैकत्वपरिणामावयविवादिन इत्यर्थः । किमित्याह-न बाधायै तत्तथाभावस्य तेषाम्अण्वाद्यवयवानामेकत्वेन भवनस्य तदेकत्वपरिणामतया कारणेन तथापूर्वपक्षोदितप्रकारेण विकल्पनायोगादिति ॥
१ 'तद्व्यति०' इति ग-पाठः । २ द्रष्टव्यं नवम पृष्ठम् । ३ द्रष्टव्यं पञ्चमं पृष्ठम् । ४ 'नित्यतया इति कु-पाठः। ५'विकृत.' इति क-पाठः। ६ द्रष्टव्यं षष्ठं पृष्ठं सप्तमं च । ७ इष्टव्यं नधमं