________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
( मूलम् )
'देशाद्यभेदानुपपत्तेः । इति यथोदित एवायं प्रतीतिन्यायाविरुद्धः । तथाहि - अस्ति तावदियं विच्छिन्नार्थग्रहणस्वभावप्रतिभासा स्थूलाकारा प्रतीतिः । न चायं स्थूलः तत्तत्स्वभावतया समानजातीया- ५ वयवैकत्वपरिणामरूपः तत्तत्सहकारियोगात् तथाभवन् विरुध्यत इति । न चात्रावयविपक्षोक्तदूषणावकाशः ततोऽस्य जात्यन्तरस्वात् कथञ्चित् स्वावयवात्मकत्वेन सर्वथा तद्व्यतिरेकासिद्धेः । एतेन मूर्त्तत्वेन तदभिन्नदेशताऽनुपपत्तिः प्रत्युक्ता, तत्स्वभावतया 'तेषामेव तथाभवनात्, अत एव वृत्त्ययोगदूषणासम्भवात् अर्था- १० न्तरभूतस्यैवावृत्तेः । " भिन्नदेशस्य 'वाग्रहणात्' इत्यप्यनङ्गीकरणाद( खो० व्या० ) द्यात्मकत्व एव सति अमीषां घटाद्यवयविनां तद्भेद एव - मृदाद्यात्मकावयवेभ्यो भेद एव । कुत इत्याह- देशाद्यभेदानुपपत्तेः - सामान्यतो देशकाल - स्वभावाभेदानुपपत्तेः । इति - एवं यथोदित एवायम् - अवयवी प्रतीतिन्याया- १५ विरुद्धः । इहैव भावार्थमाह तथाहीत्यादिना । तथाहि अस्ति तावदियं विच्छिन्नार्थग्रहणस्वभावप्रतिभासा, बहिर्मुखावभासेत्यर्थः, स्थूलाकारा प्रतीतिः प्रतिप्राण्यनुभवात्मिका । न चायम् - आकारः स्थूलः तत्तत्स्वभावतया, प्रक्रमादणूनां स्थूलरूपभवनस्वभावतया, समानजातीयावयवैकत्वपरिणामरूपः सन् तत्तत्सहकारियोगात्-कालादृष्टादिसहकारियोगात् तथा तेन २० प्रकारेण भवन् विरुध्यत इति । न चात्र - यथोदितैकत्वपरिणामेऽवयविपक्षोक्तदूषणावकाशः । कुत इत्याह-- ततोऽस्य जात्यन्तरत्वात् - अवयविनो जात्यन्तरत्वात् । अवयविनो जात्यन्तरमयमेकत्वपरिणामः । जात्यन्तरत्वं च कथञ्चित् स्वावयवात्मकत्वेन हेतुना सर्वथा - एकान्तेन तद्व्यतिरेकासिद्धेः कारणात् । एतेनेत्यादि । एतेन कथञ्चित् स्वावयवात्मकत्वेन यथोदितैकत्व- २५ परिणामस्य मूर्त्तत्वेन तदभिन्नदेशताऽनुपपत्तिः - अवयवाभिन्नदेशताऽनुपपत्तिरवयविनः पूँर्वपक्षोदिता प्रत्युक्ता । कथमित्याह तस्वभावतया - तथैकत्वभवनस्वभावतया तेषामेव - अण्वाद्यवयवानां तथाभवनात् - कथञ्चिदभिन्नैकत्वपरिणामेन भवनात्, अत एव अनन्तरोदितादेकत्वपरिणामाद् वृत्त्ययोगदूषणासम्भवात् कारणात् । असम्भवश्च अर्थान्तरभूतस्यैव, अवयवेभ्य इति १०
-
१ ' देशादिभेदा०' इति क-पाठः । २ तथोदित एवायं इति क- पाठः । ३ 'न्यायविरुद्धः' इति क - पाठः । ४ ' तेषामेव' इति पाठो न प्रतौ न विद्यते । ५ द्रष्टयं पञ्चमं पृष्ठम् । ६ वा ग्रहणा.' इति ग-पाठः । द्रष्टव्यं तुर्थ पृष्ठम् ।
४३