________________
४२
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
(मूलम्) वायमिति चेत्, न, प्रतीतिविरोधात् । असिद्धोऽयमिति चेत्, कयोपपत्त्येति वाच्यम्, न घनेकेषु कचिदेकबुद्धिः। को वा किमान ५ हेत्यविप्रतिपत्तिरत्र । अस्ति चेयमनेकावयवेऽवयविनि। सत्यम्, न तु तद्गर्भेति भाव्यताम् । तद्गति कोऽर्थः? कथञ्चित् तद्हणात्मिका । यदि नामैवं ततः किम् ? तत्तदेकत्वपरिणामता । यदि यसौ तदन्य एव स्यात्ततस्तदन्यान्यबुद्धिवदतद्ग्रहणा(१)त्मिकैव भवेत्। न चेयमित्थम् , तथाऽननुभवात्। न ह्यमृदादिग्रहणरूपा घटादिबुद्धिः अनु१० भूयते । न चानुभवविरुद्धा कल्पना न्यायया । न ह्यस्यां प्रभवन्त्यां कस्यचिदसिद्धिर्नाम । न चामृदाद्यात्मकत्व एवामीषां तद्भेद एष,
(खो० व्या०) मिति चेत् तद्भेदग्रहः । एतदाशङ्याह-न, प्रतीतिविरोधात् । न ह्येवंभूता प्रतीतिः । असिद्धोऽयमिति चेत् प्रतीतिविरोधः । एतदाशङ्कयाह-कयोपपत्या १५ असिद्ध इति वाच्यम् । न यस्मादनेकेषु-भावेषु कचिदेकबुद्धिरितीयमेवोपपत्तिः। एतदाशय सामान्येनाह-को वा किमाहेत्यविप्रतिपत्तिरत्र-वस्तुनि यदुत नानेकेषु कचिदेकबुद्धिरिति । अत्राह-अस्ति चेयमनेकावयवेऽवयविनि एकबुद्धिर्घटोऽयमित्यादिरूपा । एतदाशङ्कयाह-सत्यमस्ति, न तु तद्गति
भाव्यताम्, प्रक्रमात् न पुनरनवयवगर्भेति । अत्राह-तगति कोऽर्थः ? । २० इहोत्तरम्-कथश्चित् तद्रहणात्मिका, प्रक्रमादनेकावयवग्रहणात्मिकेति । यदि नामैवं ततः किमिति परः । तत्तदेकत्वपरिणामतेत्युत्तरम् । तस्य-अवयविनः तदेकत्वपरिणामता, अत एवाद्यवयवैकत्वपरिणामतेति । एतदेव भावयति यदीत्यादिना। यदि हि असौ-अवयवी तदन्य एव तेभ्यः-अवयवेभ्योऽन्यः स्यात्
ततः किं स्यादित्याह-ततस्तदन्यान्यबुद्धिवत् तेभ्यः-घटावयवेभ्योऽन्यो घटाव२५ यवीति तदन्यस्तस्मादन्यः पटाद्यवयवीति तबुद्धिवदिति निदर्शनम् । अतदात्मि
कैव-मृदात्मिकैव भवेद् घटावयव्येकत्वबुद्धिः। न चेयमित्थमधिकृतैकत्वबुद्धिः। कुत इत्याह-तथाऽननुभवात्। एतदेवाह-न यस्मादमृदादिग्रहणरूपा घटादिबुद्धिरनुभूयते । किं तर्हि ? मृदादिग्रहणरूपैव । न चानुभवविरुद्धा
कल्पना न्याय्या । किमित्यत आह-न यस्मादस्यां प्रभवन्त्यामनुभवविरुद्ध३० कल्पनायां कस्यचिदसिद्धिर्नाम, तत्प्रसादतः सर्वसिद्ध्यापत्तेः । न चामृदा
१'नवतद्गर्भेति' इति ग-पाठः। २ किं तत् , तदेक०' इति ग-पाठः। ३ 'न तद्गर्भेति वाच्यता' इति -पाठः।