________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) यो गन्ध इत्यनेन गन्धविशेषणाभिधानात्, अन्यथा गन्धखभावो यो गन्ध इति प्रामोति, तन्मात्रस्य वैशिष्ट्यायोगेन विशेषणानुपपत्तेरित्यलं प्रसङ्गेन ॥ __ अवयविपक्षोक्तदूषणानि तु तथातदनभ्युपगमान्न नो बाधायै । न घवयवेभ्योऽन्य एवावयवीत्यभिदधति जैनाः। किं तर्हि ? कथश्चिदनन्या, तदेकत्वपरिणाम एवासाविति। इत्थं चैतदङ्गीकर्तव्यं तथाप्रतीतेः, तदग्रह एव सर्वथाऽग्रहणात्, समन्धकारे तदनुपलब्धेः । नेयमवयवाग्रहणत इति चेत्, कुतस्तीति वाच्यम् । समन्ध- १० कारेण तद्रहणावरणादिति चेत् स्यात् तदभावे तद्भेदग्रहः । अस्त्ये
(खो० व्या०) परैरिति एनामेव भावनिकयाऽऽह तथाहीत्यादिना । चन्दनखभावो यो गन्ध इत्यनेन-ग्रन्थेन गन्धविशेषणाभिधानात् चन्दनस्वभावतया, अन्यथा गन्धखभावो यो गन्ध इति प्राप्नोति, न चन्दनस्वभाव इति । कुत इत्याह-१५ तन्मात्रस्य-गन्धमात्रस्य वैशिष्ट्यायोगेन हेतुना विशेषणानुपपत्तेः। चन्दनस्वभावो य इत्येवमित्यलं प्रसङ्गेन-इति प्रकृतोपसंहारः ॥
अवयविपक्षोक्तदूषणानि तु पूर्वपक्षग्रन्थे तथा-तेनावयवभिन्नत्वादिना प्रकारेण तदनभ्युपगमात्-अवयव्यनभ्युपगमात् कारणात् न नो बाधायैनास्माकं बाधायै । एतदेवाह न हीत्यादिना । न यस्माद् अवयवेभ्यः सकाशात् २० अन्य एव-एकान्तेन अवयवीत्यभिदधति-भणन्ति जैनाः। किंतर्हि ? कथचिदनन्यः। कुत इत्याह-तदेकत्वपरिणाम एव-अवयवैकत्वपरिणाम एवासौअवयवी इति । इत्थं चैतदङ्गीकर्तव्यमित्याह-तथाप्रतीते:-अवयवैकत्वपरिणामत्वेन प्रतीतेः । प्रतीतिश्च तदग्रह एव-अवयवाग्रह एव सर्वथाऽग्रहणादवयविनः । एतदेव भावयति समन्धकारेऽवयवाग्रहणेन एतदनुपलब्धे:-अव-२५ यव्यनुपलब्धेः । नेयमवयव्यनुपलब्धिः, अवयवाग्रहणतः। इति चेत्, एतदाशङ्कयाह-कुतस्तौति वाच्यम् । इयमवयव्यनुपलब्धिः समन्धकारेण हेतुना तद्ग्रहणावरणात्-अवयविग्रहणावरणात् । इति चेत्, एतदाशयाह-स्यात् तदभावे-समन्धकाराभावे तद्भेदग्रहः-अवयवभेदेन ग्रहोऽवयविनः। अस्त्येवाय
१'इति कृतोप०' इति क-पाठः । २'तद्ग्रहणात्' इति क-पाठः।
अनेकान्त०६