SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः (मूलम् ) नीलादयः पीतादिविज्ञानकार्यकरणखभावाः ख्याप्यन्त इत्यसन्दिग्धं तुल्यमनेन, अन्यतरशब्दादेः प्रवृत्तिनिमित्ताभावाविशेषात् ५एकान्तकस्वभावत्वात् । तत्वभाववैचित्र्याभ्युपगमे तु न विप्रतिपत्तिरावयोर, सर्वत्र निरुपचरितप्रवृत्तिनिमित्तोपपत्तेः तत्तत्परिणामापेक्षया तथा तथोपसर्जनादिभावेन विचित्रक्षयोपशमयोगतस्तत्तच्छब्दादिसिद्धेरिति ॥ __ एतेन चन्दनस्य गन्ध इत्यत्रापि न चन्दनं नाम गन्धव्यतिरिक्तं १० किञ्चिद् द्रव्यमस्ति । किं तर्हि ? अनेकात्मकस्य गन्धस्य चन्दनखभावो यो गन्धः स तथा निर्दिश्यत इति यदुच्यते परैस्तदपि प्रत्युक्तमेव, सर्वथैकस्वभावत्वे सति अस्याप्यनुपपत्तेः । तथाहि-चन्दनस्वभावो (खो० व्या०) खभावा नीलादयः पीतादिविज्ञानकार्यकरणस्वभावाः ख्याप्यन्त १५ इति-एवं असन्दिग्धं तुल्यमनेन । कथमित्याह-अन्यतरशब्दादेनीलपीताद्यपेक्षया प्रवृत्तिनिमित्ताभावाविशेषात् । अविशेषश्च एकान्तकस्वभावत्वात् रूपादीनाम् । एवं चैककार्यपरिकल्पनाबीजमप्यस्तु कार्यान्तरपरिकल्पनाबीजमप्यस्तु । कार्यान्तरपरिकल्पनाबीजं तु न तत्र युज्यते इत्यभिप्रायः। तत्स्वभाव वैचित्र्याभ्युपगमे पुनः किमित्याह-न विप्रतिपत्तिरावयोः। कुत इत्याह२० सर्वत्र-चक्षुर्विज्ञानादिकार्यादौ निरुपचरितप्रवृत्तिनिमित्तोपपत्तेः मुख्य शक्तिद्वयभावेन । एतदेवाह तत्तदित्यादिना । तत्तत्परिणामापेक्षया-चक्षुर्विज्ञानादिकार्यकरणपरिणामापेक्षया तथा तथा-तेन तेन प्रकारेण उपसर्जनादिभावेन-- अविवक्षितादिरूपेण विचित्रक्षयोपशमयोगतः कारणात् तत्तच्छब्दादिसिद्धेः-रूपादिघटादिशब्दविज्ञानादिसिद्धेरिति ॥ २५ एतेनेत्यादि । एतेन-अनन्तरोदितेन वस्तुना चन्दनस्य गन्ध इत्यत्रापि भेदाधिकारे न चन्दनं नाम गन्धव्यतिरिक्तं किञ्चिद् द्रव्यमस्ति । किं तर्हि ? अनेकात्मकस्य गन्धस्य कुङ्कुमाद्यपेक्षया चन्दनस्वभावो यो गन्धः स तथा-तेन चन्दनोपलक्षणप्रकारेण निर्दिश्यते चन्दनस्य गन्ध इति-एवं यदुच्यते परैः-एकस्वभाववस्तुवादिभिः तदपि प्रत्युक्तमेव-परिहृतमेव । ३० कथमित्याह-सर्वथैकस्वभावत्वे सति वस्तुनः तस्याप्यनुपपत्तेः । यदुच्यते १'इत्यत्रापि चन्दनं नाम न गन्धः ' इति ग पाठः । २'अचन्दनः' इति टर-पाठः।
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy