________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) व्यपदेशो न स्यात् । स्यादेतत् तथाकृतसङ्केतत्वाद् ये यथा शब्दा नियुज्यन्ते तथा वाचका इत्यव्यतिरेकेऽप्येवंव्यपदेशो युक्त एव, केवलं प्रयोजनानपेक्षो न भवति तदप्यस्त्येव यथाऽऽह न्याय- ५ वादी-"रूपादयो घटस्येति तत्सामान्योपसर्जनास्तव्यक्तिभेदाः ख्याप्यन्ते” इति । अयमत्रार्थ:-रूपादयो घटस्येति व्यपदेशे घटसामान्यविशेषणा रूपादिशक्तिभेदाः प्रतिनियता उच्यन्ते, प्रतिनियतशक्तिस्वभावाः सन्तः सामान्यशक्तिखभावाः ख्याप्यन्त इति यावत् । एतदप्ययुक्तम्, वचनमानत्वात् । एवं हि प्रतिनियत-.. चक्षुर्विज्ञानादिकार्यकरणस्वभावाः सन्त उदकाद्याहरणकार्यकरणखभावाः ख्याप्यन्त इत्येतदापन्नम् । एतच्चैवमभिधीयमानं असति वास्तवे तत्वभाववैचित्र्ये नीलादिविज्ञानकार्यकरणभावखभावा
(खो० व्या०) न स्थात्, अस्ति चायं घटस्य रूपादय इति । स्थादेतदित्यादि । तथा-तेन १५ प्रकारेण कृतः सङ्केतो येषां, प्रक्रमाच्छब्दानां, ते तथाविधास्तद्भावस्तस्मात् ये यथा शब्दा नियुज्यन्ते वाचकत्वेन ते तथा वाचका इति कृत्वा अव्यतिरेकेऽपि-अभेदेऽपि एवं घटस्य रूपादय इति व्यपदेशो युक्त एव, केवलमन्यत्र प्रयोजनानपेक्षो न भवति तदप्यस्त्येव इह प्रयोजनं व्यपदेशे यथाऽऽह-न्यायवादी धर्मकीर्तिः-रूपादयो घटस्येति-एवं तत्सामा-२० न्योपसर्जना:-रूपादिसामान्योपसर्जनास्तव्यक्तिभेदाः-रूपादिव्यक्तिभेदाः ख्याप्यन्त इति । अयमत्र-ग्रन्थे भावार्थ:-रूपादयो घटस्येति व्यपदेशेऽस्मिन् घटसामान्यविशेषणास्तदुपसर्जनभावेन रूपादिशक्तिभेदाः प्रतिनियता उच्यन्ते । प्रतिनियतशक्तिस्वभावाः सन्तो वस्तुस्थित्या सामान्यशक्तिखभावाः ख्याप्यन्त इति यावत् । एतदाशङ्कयाह-एतद- २५ प्ययुक्तम् । कुत इत्याह-वचनमात्रत्वात् । एतदेवाह एवं हीत्यादिना। एवं यस्मात् प्रतिनियतचक्षुर्विज्ञानादिकार्यकरणखभावाः सन्तो रूपादय उदकाधाहरणकार्यकरणस्वभावाः ख्याप्यन्त इत्येतदापन्नं नीत्या । एतचैवमभिधीयमानं सत् असति वास्तवे-तात्त्विके तत्वभाववैचित्र्ये तेषां-रूपादीनां स्वभाववैचित्र्ये । किमित्याह-नीलादिविज्ञानकार्यकरण(भाव)-३० १'देशो यथाऽऽह' इति उ-पाठः ।