________________
३८
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम्) योगात् सकललोकसिद्धत्वात् उदकाद्याहरणज्ञानादिभावात् । एवं च तदग्रहे तबुद्ध्यभावादिति युक्तिरप्ययुक्तिरेव, तद्रहणस्यैव तद्५बुद्धित्वेन तद्भेदाभिधानायोगात्, तद्भेदाभिधाने च रूपादिबुद्ध्यविनाभूता घटबुद्धिरिति बलादापद्यते। एवं च भवन्ती नियमत एवेयं तत्मतिबद्धं निमित्तान्तरमुपदर्शयतीति यथोदिततत्परिणाम सिद्धिः। अवश्यं चैतदित्थमङ्गीकर्तव्यम्-यदि तु रूपादय एव घटस्ततस्तदतिरिक्ततत्त्वान्तराभावाद् घटस्य रूपादय इति व्यतिरेकाभिधायी
(खो० व्या०) एव घट इति च । अयोगश्च प्रवृत्तिनिमित्ताभावात् । न हि यदेव रूपादिशब्दस्य प्रवृत्तिनिमित्तं तदेव घटशब्दस्यापि भवितुमर्हत्यतिप्रसङ्गादिति भावनीयम् । इतश्वायुक्तं रूपादय एव घट इत्येतत् कार्यभेदानुपपत्तेः कारणात् , नैकान्तेन एकखभावेभ्यः कार्यभेदो न्याय्यः, तस्य च-कार्यभेदस्य प्रतिक्षेपायोगात् । १५ अयोगश्च सकललोकसिद्धत्वात् कार्यभेदस्य । अत एवाह-उदकाद्याहरण
ज्ञानादिभावात् उदकाचाहरणादि सामान्यशक्तिकार्य ज्ञानादि च प्रतिनियतशक्तिकार्यमिति । एवं चेत्याद्यभ्युच्चयार्थम् । एवं च कृत्वा तदग्रहे-रूपायग्रहे तबुद्ध्यभावात्-घटबुद्ध्यभावादिति युक्तिरपि रूपादीनां घटत्वे साध्ये । किमित्याह-अयुक्तिरेव । कुत इत्याह-तन्द्रहणस्यैव-रूपादिग्रहसैव तद्बुद्धि२० त्वेन-घटबुद्धित्वेन हेतुना तझेदाभिधानायोगात् तयोः-रूपादिघटग्रहबुद्ध्योभैंदेनाभिधानं तस्यायोगात् । तद्भेदाभिधाने च सति किमित्याह-रूपादिबुद्ध्यविनाभूता। केत्याह-घटवुद्धिरिति एतद् बलादापद्यते । एवं च भवन्ती रूपादिबुद्ध्यविनाभावेन नियमत एवेयं-घटबुद्धिः तत्प्रतिबद्धं-रूपादिप्रतिबद्धं निमित्तान्तरमुपदर्शयतीति कृत्वा । किमित्याह-यथोदिततत्२५ परिणामसिद्धिः यथोदितश्चासौ, प्रक्रमात् तत्परिणामश्च-अण्वादिपरिणामश्चेति समासः, तस्य सिद्धिरिति । अभ्युच्चयमाह-अवश्यं चैतदित्थमङ्गीकर्तव्यमनन्तरोदितम् । विपक्षे बाधामाह यदि त्वित्यादिना । यदि तु रूपादय एव घटः ततस्तदतिरिक्ततत्त्वान्तराभावात्-रूपाद्यतिरिक्ततत्त्वान्तराभावात् कारणात् घटस्य रूपादय इति-एवं व्यतिरेकाभिधायी-भेदाभिधायी व्यपदेशो
१ 'बन्धनिमित्ता.' इति क-पाठोऽनादरणीयः । २ 'रूपादिप्रहघटो चुज्यो.' इति -पाठः । ३ 'तस्य योगात्' इति ङ-पाठः ।