SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अधिकारः ] स्वोपज्ञव्याख्यामुनि चन्द्रीयविवरणयुतम् (मूलम् ) किञ्च किमिदं सामान्यप्रतिनियतशक्तिमद्भ्यो रूपादिभ्योऽन्यदुतानन्यदिति । अन्यत्वे सङ्गायोगः, अनन्यत्वे रूपादिभ्यस्तदेकत्वादि । त एव तदिति चेत्, कथमेकस्वभावास्तदुभय भाजः ? । ५ परिकल्पितं तदिति चेत् निर्हेतुकं तर्हि तत्कार्यम् । रूपादिभ्य एव तदिति चेत्, कथमेकस्वभावेभ्योऽनेकम् ? । तत्तत्स्वभावत्वादिति चेत्, न तदचित्रतायामेतदित्युक्तप्रायम् ॥ ३७ एवं सर्वधैकस्वभाववस्तुवादिनो रूपादय एवं घट इत्ययुक्तम् । रूपादय एव रूपादय इति वाक्यार्थापत्तेः भिन्नशब्दप्रयोगायोगात्, १० प्रवृत्तिनिमित्ताभावात्, कार्यभेदानुपपत्तेः, तस्य च प्रतिक्षेपा ( खो० व्या० ) द्विविधा हि रूपादीनां शक्तिरित्यादि इत्थमभिधातुं युज्यत इति, शक्तिद्वैविध्ये एकस्वभावत्वानुपपत्तेरित्यर्थः ॥ अभ्युच्चयमाह किश्चेत्यादिना । किञ्च किमिदं सामान्यप्रतिनियतशक्तिद्वयं १५ शक्तिमद्भ्यः रूपादिभ्यः अन्यदुतानन्यदिति विकल्पद्वयम् । किञ्चातः ? उभयथाऽपि दोष इत्याह- अन्यत्वे संयोगायोगः, सम्बन्धाभाव इत्यर्थः । अनन्यत्वे शक्तिद्वयस्य रूपादिभ्यस्तदेकत्वादि तयोः - शक्तयोरेकत्वम् । एकस्माद् रूपादेरनन्यत्वात् तत्स्वरूपवद् रूपादिभेदो वेत्यादि शब्दार्थः । त एवेत्यादि । त एव - रूपादय एव तत्-शक्तिद्वयम् । इति चेत्, एतदाशङ्क्याह--कथ- २० मेकस्वभावाः- रूपादयः तदुभयभाजः तच्छक्तिद्वयभाज इत्यर्थः । परिकल्पितं तत् - शक्त्युभयम् । इति चेत्, एतदाशङ्कयाह-निर्हेतुकं तर्हि तत्कार्यंशक्तिद्वय कार्यमुदकाद्याहरणादि । रूपादिभ्य एव तत् - कार्यम् । इति चेत्, एतदाशङ्कयाह- कथमेकखभावेभ्यो रूपादिभ्यः अनेकं कार्यमुदकाद्याहरणादि चक्षुविज्ञानादि च ? । तत्तत्स्वभावत्वात् तेषां रूपादीनां अनेककार्यजननस्वभाव - २५ त्वात् । इति चेत् अनेकं कार्यम् एतदाशङ्कयाह-न तदचित्रतायाम् - अधिकृतखभावचित्रतायामेतत्-तत्स्वभावत्वमित्युक्तप्रायं प्रायेणोक्तम् ॥ एवं च कृत्वा सर्वथैकस्वभाववस्तुवादिनः - बौद्धस्य रूपादय एव घट इत्येतदप्ययुक्तम् । कथमित्याह - रूपादय एव रूपादय इति - एवं वाक्यार्थापत्तेः कारणात् । आपत्तिश्च भिन्नशब्दप्रयोगायोगात् भिन्नौ चैतौ रूपादय ३० १ 'तदेति' इति भ्रान्तिमूलकः क-पाठः । २ 'भावेभ्यः अनेकान्ततत्स्व०' इति ग-पाठोऽनादरणीयः । ३ ' तयेवेत्यादि' इति ङ-पाठः ।
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy