________________
३६
अनेकान्तजयपताकाख्यं प्रकरणम् अनेकान्तजयपताकाख्यं प्रकरणम
[पञ्चमः (मूलम्) भावात्, व्यक्तिभेदमात्रस्याप्रयोजकत्वात् तद्भावेऽपि तथाबोध
भेदासिद्धेः, समानजातीयेभ्योऽतुल्येतरबुद्ध्यभावादिति रूपादीनाम५ नेकखभावत्वसिद्धिः॥
स्थादेतत् सिद्धसाधनमेतदुक्तमेव नः पूर्वाचार्यैः-"द्विविधा हि रूपादीनां शक्तिः सामान्या प्रतिनियता च । तत्र सामान्या यथा घटसन्निवेशिनामुदकाद्याहरणादिकार्यकरणशक्तिः, प्रतिनि
यता यथा चक्षुर्विज्ञानादिकार्यकरणशक्तिरिति” । अत्रोच्यते१० उसमिदमयुक्तं तूक्तं, पूर्वाभ्युपगमविरोधात्, एकान्तकस्वभाव
वस्तुवादिनो भवन्तः, स्वलक्षणानां निरंशत्वप्रतिज्ञानात्, तत् कथमिदमित्थमभिधातुं युज्यत इति ?॥
(खो० व्या०) अविकल्पिकबुद्धिभेदायोगात् । अयोगश्च भेदकाभावात् अविशिष्टरूपादिखलक्षणा१५ लम्बनत्वेन, व्यक्तिभेदमात्रस्य अधिकृताविकल्पकबुद्धिनां किमित्याह-अप्र
योजकत्वात्।एतदेवाह-तद्भावेऽपि-व्यक्तिमात्रभेदभावेऽपि तथा-भिन्नविकल्पबुद्धिजनकत्वेन बोधभेदासिद्धेः । असिद्धिमेवाह-समानजातीयेभ्यः रूपाद्यविकल्पबोधभेदेभ्यः । किमित्याह-अतुल्येतरवुद्ध्यभावात् । अतुल्याश्च ता
इतरबुद्धयश्च अविकल्पबोधभेदानामितरबुद्धयो विकल्पिका गृह्यन्ते, तासामभावस्त२० स्मात् । न हि नीलस्खलक्षणबोधभेदेभ्यो नीलानीलविकल्पबुद्धिभाव इति भावनीयम् । इति-एवं रूपादीनामनेकस्वभावत्वसिद्धिः॥
स्यादेतत् सिद्धसाधनमेतद् यदुक्तं भवता । कुत इत्याह-उक्तमेव न:-अस्माकं पूर्वाचार्यः-धर्मपाल-धर्मकीयादिभिः द्विविधा यस्माद्
रूपादीनां शक्तिः सामान्या एका प्रतिनियता च अपरा। तत्र सामान्या २५शक्तिः यथा घटसन्निवेशिनां-रूपादीनां उदकाद्याहरणादिकार्यकरण
शक्तिः , यतः सवैरेव घटैरेतत् क्रियते । प्रतिनियता तु रूपादीनां शक्तिर्यथा चक्षुर्विज्ञानादिकार्यकरणशक्तिरिति । रूपं हि चक्षुर्विज्ञानमेव जनयति, न रसादिविज्ञानम् । एवं रसादयोऽपि रसादिविज्ञानान्येवेति । एतदाशझ्याह-अत्रो.
च्यते-उक्तमिदं वः पूर्वाचार्यैः अयुक्तं तूक्तम् । कुत इत्याह-पूर्वाभ्युपगम३० विरोधात् । विरोधश्च एकान्तकखभाववस्तुवादिनो भवन्तः-बौद्धाः। कुत इत्याह-स्वलक्षणानां निरंशत्वप्रतिज्ञानात् कारणात् तत् कथमिदं१ 'त्साह प्रयोजक०' इवि ङ-पाठः ।