________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
भावे त्वस्मभ्युपगमसिद्धेः, अन्यथा तथा तत्सन्निवेशित्वायोगात् ॥ न चेयमविकल्पका तुल्यैव, रूपादिखलक्षणालम्बनत्वात्, विकल्पिकाया अपि तथाभेदानुपपत्तेः अस्या अपि तत्त्वतोऽविकल्पि - ५ कालम्बनत्वात्, प्रत्यक्षष्टष्टभावित्वेनाध्यवसिततद्भावतो गृहीतग्राहित्वेन विकल्पिकाया अप्रामाण्याभ्युपगमात्, अन्यथा गृहीतग्राहित्वानुपपत्तेः, अविशिष्टतद्बोधमात्रात् तद्भेदायोगात्, विषयभेदमन्तरेण च तद्वैशिष्ट्यानुपपत्तेः, तद्भेदाभ्युपगमे चास्मदभ्युपगतद्रव्यसंस्थानाभ्युपगमः, अन्यथा तथा तद्भेदायोगात्, भेदका - १० ( स्वो० व्या० )
"
शरावादिसंस्थानभवनविशेषाभावात् । भावे पुनस्तद्विशेषभावस्य अस्मदभ्युपगमसिद्धिः । अन्यथा - अस्मदभ्युपगमसिद्धिमन्तरेण किमित्याह -तथा-घटशरावादिसंस्थानभवनेन तत्सन्निवेशित्वायोगात् तेषां रूपादीनां सन्निवेशित्वायोगात् । 'अविशिष्टरूपादिनिबन्धनवादिनस्त्वेष दोषोऽनिवारित एव" इति क्रियायोगोऽनुवर्तते ।। १५ न चेयमित्यादि । न चेयमिति दीर्घतरप्रक्रमाद् घटशरावादिबुद्धिर्गृह्यते अविकल्पिकाsतुल्यैव, रूपादिखलक्षणालम्बनत्वात् कारणात् । कुत इत्याहfasteपकाया अपि तथा-घटशरावादिप्रतिभासभेदेन भेदानुपपत्तेः । अनुपपत्तिश्चापि अस्या अपि विकल्पिकाया घटशरावादिबुद्धेः तत्त्वतः - परमार्थेन । किमित्याह - अविकल्पिकालम्बनत्वात् अविकल्पिकालम्बनं रूपादिस्वलक्षणं २० आलम्बनं यस्याः सा अविकल्पिकालम्बना एकालम्बनशब्दलोपेन तद्भावस्तस्मात् । एतदेवाह प्रत्यक्षेत्यादिना । प्रत्यक्षपृष्टभावित्वेन हेतुनाऽध्यवसिततद्भावतः परिच्छिन्नप्रत्यक्षालम्बनतया गृहीतग्राहित्वेन एव विकल्पिकाया बुद्धेः अप्रामाण्याभ्युपगमात् । इत्थं चैतदङ्गीकर्तव्यमित्याह- अन्यथा गृहीतग्राहिस्वानुपपत्तेः । तथा अविशिष्टतद्बोधमात्रात्-रूपादिखलक्षणबोधमात्रात् २५ तद्भेदायोगात् विकल्पिकाया बुद्धेर्भेदायोगाद् घटशरावादिबुद्धित्वेन तथा विषयभेदमन्तरेण च तात्त्विकं तद्वैशिष्टधानुपपत्तेः प्रक्रमात् तन्निबन्धनभूताया अविकल्पिकाया वैशिष्ट्यानुपपत्तेः । तद्भेदाभ्युपगमे च - विषयभेदाभ्युपगमे च किमित्याह- अस्मदभ्युपगतद्रव्यसंस्थानाभ्युपगमः । अन्यथा एवं तदभ्युपगमाभावे तथा-घटशरावादिविकल्पबुद्धिजनकत्वेन तद्भेदायोगात्, प्रक्रमात् ३०
J
अधिकारः ]
३५
१ 'अस्मादभ्युपगम सिद्धि०' इति ङ-पाठः । २ द्रष्टव्यं ३४ पृष्ठम् । ३ 'दीर्घतच प्रमोद् घट०' इति ङ-पाठः । ४ 'अवशिष्ट०' इति ङ-पाठः । ५ 'तात्त्विकः तद्वै०' इति ङ-पाठः ।
६ 'प्रमत् अवि०' इति ङः - पाठः ।