________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
( मूलम् )
निमित्तान्तराभावात् । बोधमात्रतत्त्ववादे तु वासनाद्ययोगात् अस्य
चोक्तत्वादभिधीयमानत्वाचाअविशिष्टरूपादिनिवन्धनवादिनस्त्वेष ५ दोषोऽनिवारित एव, अवैशिष्ट्येन तेषामेकस्वभावत्वात् घटशरावादिसंस्थानानुपपत्तेः, तदव्यतिरिक्तत्वेन तन्मात्ररूपत्वात्, तत्तत्वभावत्वे तद्धर्मभेदोपपत्तेः, रूपादित्वाविशेषे तद्विशेषाभावात्,
(खो० व्या०) तया-अण्वेकत्वपरिणामचित्रस्वभावतया कारणेन तद्वास्तवत्वोपपत्तेः-विशिष्ट१० संस्थानभाववास्तवत्वोपपत्तेः । तथा अविगानतः-अविगानेन तथोपलम्भात्विशिष्टसंस्थानवत्त्वेनोपलम्भात् निमित्तान्तराभावात् । एकत्वपरिणाममात्राधिकसंस्थानभावेन वासनाऽस्य 'निमित्तमिति निराकरणायाह-बोधमात्रतत्त्ववादे तु-पुनरेकान्तेन वासनाद्ययोगात्, अस्य च-वासनाद्ययोगस्य उक्तत्वात्
अभिधीयमानत्वाच्च ऊर्ध्वयाऽपि घटशरावादिबुद्धितुल्यत्वापत्तिचोदना साऽप्य१५ नवकाशैव' इति क्रियायोगोऽनुवर्तते । अविशिष्टरूपादिनिबन्धनवादिनस्तु
घटादिबुद्धेः सौत्रान्तिकस्य । किमित्याह-एष दोषोऽनिवारित एव घटशरावादिबुद्धितुल्यत्वापत्तिलक्षणः।कुत इत्याह-अवैशिष्टयेन हेतुना तेषामेकखभावत्वात् परपरिकल्पितरूपादीनाम् । किमित्याह-घटशरावादिसंस्थानानुपपत्तेः तत्त्वतस्तदव्यतिरिक्तत्वेन-रूपाद्यव्यतिरिक्तत्वेन हेतुना । किमित्याह-तन्मात्र२० रूपत्वात्-रूपादिमात्ररूपत्वात् तत्तत्वभावत्वे तेषां-रूपादीनां तत्स्वभावत्वे, प्रक्रमाद् घटशरावादिसंस्थानभवनैकस्वभावत्वे तद्धर्मभेदोपपत्तेः-रूपादिधर्मभेदोपपत्तेः । तथा रूपादित्वाविशेषे सति तद्विशेषाभावात् प्रक्रमादेव घट
(विवरणम्) (१५-१६) अविशिष्टरूपादिनिबन्धनवादिनस्तु घटादिबुद्धेः सौत्रान्ति२५ कस्येति । अविशिष्टान् रूपादीन निबन्धनं-कारणं वदतीत्येवंशीलो यः सौत्रान्तिकः तस्य । अविशिष्टान् रूपादीन् निबन्धनं वदतीत्याह-घटादिबुद्धेः-घटपटइत्यादिकाया मतेः। मृदाद्यात्मक( १ त्वे) एव सत्यमीषामिति । घटाख्यो ह्यवयवी मृदात्मक एव, मृत्परमाणुभिरारब्धत्वात् । ततो मृदात्मक एव सन् असौ मृदात्मकेभ्योऽवयवेभ्यः पृथग्रूप इति वैशेषिकाः प्रतिपन्ना इति । एवं पटादिष्वपि योज्यम् ।।
१ 'निमित्यमिति निरा.' इति ङ-पाठः । २ 'वेदना' इति क-पाठः। ३ द्रष्टव्यं ३३तमं पृष्ठम् । ४ इत्याह-'अविशिष्ट्यो न हेतुना' इति क-पाठः; उ-पाठस्तु 'इत्याहावेशिष्टयेन हेतुना' इति । ५ 'सौत्रान्तिककस्या अपि विशिष्टान्' इति ख-पाठः ।