________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) भावात्। एवमपि तत्कल्पने सर्वत्रानाश्वासप्रसङ्गात् "उत्पादव्ययधौव्ययुक्तं सत्" इति कथमन्याय्यं वचः ? । प्रतिविहितं चात्र पूर्वाचारिति न प्रयासः॥ .. एवं च विशिष्टवादरभावसिद्धौ तत्तत्स्वभावतयैव विशिष्टसंस्थानभावोपपत्तेः याऽपि घटशरावादिबुद्धितुल्यतापत्तिचोदना साऽप्यनवकाशैव, विशिष्टसंस्थानवत्त्वात् तदेकत्वपरिणामस्य, तचित्रस्वभावतया तद्वास्तवत्वोपपत्तेः, अविगानतस्तथोपलम्भात्
(स्वो० व्या०) अन्यथा-निमित्तभेदमन्तरेण तदुत्पादादिबुद्धिभेदवेदनेऽतिप्रसङ्गात्-तद्वदनुत्पादादिबुद्धिभेदापत्तेरिति । अन्यतरेत्यादि । अन्यतरभ्रान्तत्वकल्पनायां, प्रक्रमादन्यतरोत्पादादिबुद्धिभेदभ्रान्तत्वकल्पनायां प्रमाणाभावात् । उत्पादव्ययबुद्धिर्धान्ता यद्वा ध्रौव्यबुद्धिरित्यत्र न वस्तुस्थित्या प्रमाणमस्तीत्यर्थः । एवमपि-प्रमाणाभावेऽपि तत्कल्पने-भ्रान्तत्वकल्पने । किमित्याह-सर्वत्रानाश्वासप्रसङ्गात् भ्रान्तबुद्धि-१५ भेदवदभ्रान्तत्वाभिमतेऽप्यनाश्वासः, प्रमाणाभावाविशेषादिति भावनीयम् , अत एवम् "उत्पादव्ययध्रौव्ययुक्तं सत्” इति कथमन्याय्यं वचः? । ननु न्याय्यमेव प्रतिविहितं चात्र पूर्वाचायः-अजितयशःप्रभृतिभिरिति न प्रयासः॥
प्रकृतमधिकृत्याह-एवं चेत्यादि । एवं च विशिष्टबादरभावसिद्धौ सत्यां किमित्याह-तत्तत्स्वभावतयैव तेषाम्-अधिकृताणूनां तत्स्वभावतयैव-विशिष्ट-२० संस्थानभवनस्वभावतयैव । किमित्याह-विशिष्टसंस्थान भावोपपत्तेर्घटशरावाद्यपेक्ष(?या) याऽपि घटशरावादिबुद्धितुल्यत्वापत्तिचोदना पूर्वपक्षे ग्रन्थान्तरे च साऽप्यनवकाशैव वेदितव्या । कुत इत्याह-विशिष्टसंस्थानवत्त्वात् कारणात् तदेकत्वपरिणामस्य, प्रक्रमादेवैकत्वपरिणामस्य, तचित्रखभाव
(विवरणम्) (२२) घटशरावादिबुद्धितुल्यत्वापत्तिचोदना पूर्वपक्षे ग्रन्थान्तरे चेति । घटशरावादयो हि वस्तुभेदा एकाकारैः परमाणुभिरारब्धत्वादेकाकारामेव बुद्धिं जनयन्त्वित्यभिप्रायेणापि परैः प्रेरणा कृता पूर्वपक्षेऽत्रैव ग्रन्थे उपलक्षणद्वारेण, न तु साक्षात् । ग्रन्थान्तरे च कापि साक्षादेवोक्ता साऽपि निरवकाशैव ॥
१ 'त्वापत्तिबोधनात् पूर्व' इति च-पाठः। २'द्वारेण तु साक्षाद्' इति च-पाठः। ३ 'साक्षादेवोक्त्वा साऽपि' इति क-पाठः।
२५
अनेकान्त० ५