________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
प्रतीतेः । तत्तुच्छाभवनस्य तु व्ययत्वे सर्वत्राविशेषात् स्यात् तद्व्ययबुद्धिः। न च भवति, तथाऽप्रतीतेः॥ ५ एवमनयोस्तत्वे सर्वथा भावाविच्छेदात् ध्रौव्यमपि सिद्धमेव, भावविच्छेदे सत्येतदनुपपत्तेः तद्धर्मत्वात् , अतद्धर्मत्वे तत्तत्त्वायोगात् सर्वथा तुच्छत्वादिति, अतः तचित्रखभावत्वात् , अन्यथा सदनुपपत्तेः तदुत्पादादिबुद्धिभेदवेदनात्, निमित्तभेदमन्तरेण तदयोगात्, अन्यथाऽतिप्रसङ्गात्, अन्यतरभ्रान्तत्वकल्पनायां प्रमाणा.
(खो० व्या० ) पूर्वभवनाभूतान्यथाभूतभवनात्मकखभावत्वात् । तथास्वभावत्वं च यथाक्षयोपशमं यस्य यथा क्षयोपशमः, क्षयोपशमानुरूपेणेत्यर्थः। तत्रैव-अधिकृतभवने किमित्याहव्ययप्रतीतेः । तथाहि-कपालादिष्वेव घटादिव्ययप्रतीतिः । इत्थं चैतदङ्गीकर्तव्यमित्याह-तत्तुच्छेत्यादि । तत्तुच्छाभवनस्य तु, प्रक्रमाद् भावतुच्छाभवनस्यैव १५ व्ययत्वे । किमित्याह-सर्वत्राविशेषात् कारणात् तत्तुच्छाभवनस्स । किमि
साह-स्यात् तद्व्ययबुद्धिः-विशिष्टभावव्ययबुद्धिः, निमित्ताविशेषादित्यभि. प्रायः । न च भवति । कुत इत्याह-तथाऽप्रतीतेः कारणात् ॥
एवम्-उक्तनीत्या अनयोः-उत्पाद-व्यययोस्तत्त्वे-तद्भावे सति । किमित्याहसर्वथा भावाविच्छेदात् कारणात् ध्रौव्यमपि सिद्धमेव । कुत इत्याह२० भावविच्छेदे सति । किमित्याह-एतदनुपपत्तेः-उत्पादव्ययानुपपत्तेः। अनुपपतिश्च तद्धर्मत्वात्-भावधर्मत्वात् तयोः । इत्थं चैतदङ्गीकर्तव्यमित्याह-अतद्धर्मत्वे, अभावधर्मत्वे इत्यर्थः । किमित्याह-तत्तत्त्वायोगात् तयोः-उत्पाद-व्यययोः तत्त्वायोगात् । अयोगश्च सर्वथा तुच्छत्वादिति । अत इत्यादि । अतः स्थितमेतत्-यद्वाऽतः-अस्माद्धेतोः तचित्रखभावत्वात्, प्रक्रमात् तस्य-मावस्य २५ चित्रखभावत्वात् , उत्पादाद्यपेक्षया "उत्पादव्ययधौव्ययुक्तं सत्" इति कथमन्याय्यं वच इति योगः । तैच्चित्रस्वभावत्वं च अन्यथा-उत्पादाद्यपेक्षया तच्चित्रस्वभावत्वमन्तरेण तदनुपपत्तेस्तस्य-अधिकृतभावस्यानु पत्तिस्तदनुपपत्तिस्ततः । इत्थं चैतदङ्गीकर्तव्यमित्याह-तदुत्पादादिबुद्धिभेदवेदनात् तस्मिन्-भावे उत्पादादिबुद्धिभेदवेदनमित्यनुभवस्तस्मात् निमित्तभेदमन्तरेण, प्रक्रमादधिकृतभावे तद३० योगात्-उत्पादादिबुद्धिभेदवेदनायोगात् । अयोगश्च अन्यथाऽतिप्रसङ्गात्
१ तत्त्वस्यायोगात्' इति ग-पाठः । २ 'सर्वथाऽनुविच्छे वादित्यतः' इति क-पाठः 1 ३ 'तचित्रत्वं च' इति -पाठः। ४ 'भवभवस्तस्मात्' इति उ-पाठः।