SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् (मूलम्) पूर्वभवनेन भूतत्वमुत्पादतया अन्यथाभूतं तु भवनं व्ययतया तदेतदुभयमात्मा यस्येत्यन्यपदार्थेनोत्पादः सम्बध्यते व्ययाविना. भूतः, व्यपदेशस्त्वस्य पूर्वभवनाभूतान्यथाभूतभवनात्मक इति ।५ तंचैवम् , तत्वतस्तथास्वभावत्वात्, यथाक्षयोपशमं तत्रैव व्यय (स्वो० व्या०) तत्र पूर्वभवनेन-कारणसम्बन्धिना भूतत्वम्-अतीतत्वं उत्पादतया तत्प्रागभावानिवृत्तौ प्राग्वत् तद्भावानुपपत्तेः । अन्यथाभूतं तु भवनं कारणगतमेव व्ययतया तदभावेऽन्यथाभूतत्वाभावः, तदेतदुभयम्-अनन्तरोदितं आत्मा । यस्येत्यन्यपदार्थेन उत्पादः सम्बध्यते । किंविशिष्ट इत्याह-व्ययाविनाभूत इति निदर्शितमेतत् । व्यपेदशस्त्वस्य-व्ययस्य पूर्वभवनाभूतान्यथाभूतभवनात्मक इति । पूर्वभवनेनाभूतं अन्यथाभूतं भवनं-आत्मा यस्य स तथाविध इति । इहैव भावनामाह तच्चैवमित्यादिना । तच्च-भवनमेवं पूर्वभवनाभूतान्यथाभूतभवनात्मकम् । कुत इत्याह-तत्त्वत:-परमार्थन तथाखभावत्वात्-१५ (विवरणम्) (८) उत्पादतयेति । उत्पादरूपतया वस्तुन उत्पद्यमानत्वेनेत्यर्थः । घटरूपं हि वस्तु पिण्डादिकारणरूपे अतीत एवोत्पद्यते, उत्पादस्य व्ययाविनाभूतत्वात् । कुत इत्याह-(८-९) तत्प्रागभावानिवृत्तौ प्राम्वत् तद्भावानुपपत्तेरिति । तत्प्रागभावस्य-कार्यप्रागभावस्य कारणस्वरूपलक्षणस्यानिवृत्तौ-अविनाशे सति प्राग्वत्-२० कारणावस्थायामिव तद्भावानुपपत्तेः-कार्योत्पादस्याघटनात् । कार्यस्य हि कारणकाल: प्रागभावः "क्षीरे दध्यादि यन्नास्ति प्रागभावः स कथ्यते” इति वचनात् । प्रागभावे चानिवृत्तौ नोत्पद्यत एव कार्यम् । नहि मृत्पिण्डावस्थायां समुत्पद्यमानः समुपलभ्यते घटः, किन्तु तदभाव एवेति ॥ (९) अन्यथाभूतं तु भवनमिति । अन्यथास्वरूपम् ॥ (१०) व्ययतयेति व्ययरूपतया, वस्तुनो व्ययमानत्वेनेत्यर्थः । व्ययो ह्युत्पादाविनाभावी, यतः ॥ (१०) तदभावेऽन्यथाभूतत्वाभाव इति । तस्य-व्ययस्याभावेऽन्यथाभूतत्वस्यअन्येन रूपेणोत्पादलक्षणस्याभावो वर्तते, यतः ॥ (१६) पूर्वभवनेनाभूतमिति । पूर्वरूपतया असम्पन्नम् ॥ (१३) अन्यथाभूतमिति । अन्यथा रूपतया सञ्जातम् ।। १'तत्रैव तत्त्व.' इति -पाठः। २ 'तथेव' इति ग-पाठः । ३ तदभावा.' इति कपाठः। ४ 'कपो अतीत' इति च-पाठः। ५ वर्तते पूर्व.' इति च-पाठः। २५
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy