SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः (मूलम्) इत्यपि कल्पनाऽयुक्ता, पुष्कलबीजाभावात् । इति तदुपादानमन्तरेजैव स्यात् तदभावः, यद्यसदेव सद् भवेत् । न चासावतो यदपि ५किञ्चित् तत्र असदुत्पद्यते तदपि भावाश्रयत्वात्, तत्तथाशक्तियोगात् तस्यैव तथा भवनात्, अन्यथोक्तवदयोगान्नासदेव । किं तर्हि ? कथञ्चित् , पूर्वभवनभूतान्यथाभूतभवनात्मकत्वादुत्पादस्य । एतेनैतत्वभाव एव तत्वतो व्यय इत्यर्थत उक्त एव, यतोऽस्यायमर्थः (खो० व्या०) १० असत् सद् भवतीति न्यायवादिनः-एवं न्यायवादिनः । किमित्याह-तत् प्रतीत्य-कारणं तद्भावः-कार्यभाव इत्यपि कल्पना युक्ता न च। कुत इत्याहपुष्कलबीजाभावात् । एकान्तेनैवासतः सद्भावेन सर्वथा तदनुपयोगादिति गर्भः। इति-एवं सर्वथाऽसद्भवनेन किमित्याह-तदुपादानमन्तरेणैव, प्रक्रमात् कार्योपादानमन्तरेणैव, स्यात् तद्भावः-कार्यभावः । कथमित्याह-यद्यसदेव सद १५ भवेत् न तस्यासतः कारणसत्तया कश्चित् प्रतिवन्धः । न चासौ-कार्यभावो भवति, अतो यदपि किश्चित् तत्र-अधिकृताणुभावे असदुत्पदाते तदपि भावाश्रयत्वात् कारणात् , नासदेवेति सम्बन्धः। भावाश्रयत्वं च तत्तथाशक्तियोगात् तस्य-भावस्य तथा प्रतिनियतकार्यकर्तृत्वशक्तियोगात् । तथा शक्तियोगश्च तस्यैव तथाभवनात् तस्यैव-कारणभावस्य तथा कार्यभावरूपेण २० भावभवनात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे उक्तवत् अयोगात् कारणात् नासदेव उत्पद्यते । किं तर्हि ? कथञ्चिदसदिति । कुत इत्याह-पूर्वभवनभूतान्यथाभूतभवनात्मकत्वात् कारणात् । कस्येत्याहउत्पादस्य । एतेन-उत्पादलक्षणेन एतत्वभाव एव-भावस्वभाव एव यद्वोत्पादधर्म एव तत्त्वतः-परमार्थेन व्यय इत्यर्थतः-सामर्थ्येन उक्त एव व्ययः । २५ इहैव भावार्थमाह यतोऽस्यायमित्यादिना । यतोऽस्यायमर्थः । उत्पादलक्षणवाक्यस्य पूर्वभवनभूतमन्यथाभूतं भवनम्-आत्मा यस्य स तथाविधस्तद्भावस्तस्मात् (विवरणम्) (२६) पूर्वभवनभूतमन्यथाभूतं भवनम्-आत्मा यस्य स तथाविधसद्भावस्तस्मादिति । अयं सुखावबोधाय वृत्तिकृता समासः कृतः पूर्वभवनभूतान्यथा३. भूतभवनात्मकत्वादिति वाक्यस्येति ॥ १ एतेनैव स्वभाव' इति क-पाठः । २ 'सर्वथा असंत्स(?)द्भावनेन' इति ङ-पाठः । ३ 'कारणाभावस्य' इति कु-पाठः। ४ 'इत्यर्थः सामोनोक्त एव' इति हु-पाठः।
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy