________________
अधिकार: ] स्वोपज्ञ व्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
च तत्सत्त्वस्यासम्भव एवेति भावनीयम् । आह - एवमपि किञ्चित् तत्रासदेवोत्पद्यत इतीष्टं तद्वत् । तत् प्रतीत्य तदपरभावे को दोषः १ ॥ उच्यते- दृष्टहान्यदृष्टपरिकल्पनाख्यः । तथाहि - भावाश्रितमसद् ५ भवद् दृष्टं मृद्घटादिसंस्थानादिवत्, तत्समयान्तराद्यवस्थानादितत्यागे दृष्टहानिः । न दृष्टं चातदाश्रयं वान्ध्येयवालायाकारवत् मृदभावघटाकारवद् वा । तदङ्गीकरणेऽदृष्टपरिकल्पना । न च तत्तथाभावाभावे असत् सद् भवतीति न्यायवादिनः । तत् प्रतीत्य तद्भाव ( खो० व्या० )
१०
वा असम्भव एवोक्तनीत्या इति भावनीयम् । आह परः - एवमपि यथा भवतोक्तं तथापि किञ्चित् समयान्तरायवस्थानादि तत्र - अधिकृताणुसत्त्वे असदेचोत्पयत इति - एवमिष्टं तद्वदिति निदर्शनम् । तत् प्रतीत्य-अधिकृता
सत्त्वं तदपर भावे - तदन्योत्पादे यन्नोत्पद्यत इतीष्यते तत्र को दोषः ? पर्यायवद द्रव्यमपि स्वहेतुं प्रतीत्योत्पद्यतामिति । एतदाशङ्कयाह-दृष्टहान्यदृष्टपरिकल्प- १५ नाख्यः, दोष इति वर्तते । अक्षरगमनिका सुज्ञेया । भावार्थं वाह तथाही त्यादिना । तथाही त्युपप्रदर्शने । भावाश्रितं सत् असत्-अविद्यमानं भवद् दृष्टम् । निदर्शनमाह-मृद्धदादि संस्थानादिवत् मृदि घटादिसंस्थानादि तद्वत् । किं दृष्टमित्याह - (तत्) समयान्तराद्यवस्थानादि तत्त्यागे - भावाश्रितासत्सद्भवनत्यागे । किमित्याह - दृष्टहानिः । तथा न दृष्टं चेत्यादि । न दृष्टं च अतदाश्रयं व २० तदाश्रयमतदाश्रयम्, अभावाश्रयमित्यर्थः । निदर्शनमाह-वान्ध्येयवालाद्याकारवदिति निदर्शनं सुज्ञानं सुखप्रतिपत्त्यर्थम् । एवमयमसद्वाद इति च रूथापनार्थं निदर्शनान्तरमाह - मृद्रभाव घटाकारवद् वा मृदभावे घटाकार इति समासस्तद्वत् । 'वा' शब्दो विकल्पान्तरप्रदर्शनार्थः । तदङ्गीकरणे च- अभावाश्रेयासत्सद्भवनाङ्गीकरणे च । किमित्याह - अदृष्टपरिकल्पनं यन्न दृष्टं प्रत्यक्षानुमानाभ्यामसद्भवनं तत् २५ परिकल्पनम् । इत्याकाशेषनिरासायाह-न च तत्तथाभावाभावे तस्यैव- हेतोः प्रक्रमाद् विशिष्टस्य भावस्य, तथा कार्यरूपेण विवक्षितपर्यायात्मना भावाभावे सति ( विवरणम् )
२९
तत्सत्त्वस्वभावसत्वं तस्य । उत्पादव्ययसम्बन्धिसत्त्वस्वभावं हि धौव्यम् । ततो यदि यथोदिततद्व्ययोत्पादस्वभाववैकल्यमभ्युपगम्यते धौव्यस्य, तदा न सम्भवत एवो- ३० त्पाद-व्ययौ, निरागरत्वात् । तस्मादुत्पादव्ययस्वभावं धौव्यमङ्गीकर्तुमुचितमिति ॥
१ रादिव उत्यागे दृष्ट० इति क-पाठः । २ 'भावासृतं' इति ङ-पाठः । 'भावास्ता' इति पाठः । ४ 'श्रयेऽसत्सद्भवना ०' इति ङ-पाठः १