________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
परिणामित्वे च तत्तत्कालाद्यवस्थानलक्षणस्य तत्सत्त्वस्वभावस्य कथञ्चित् क्ष (? व्य) ययोगात्, अन्यथा तत्तादवस्थ्यापत्त्या सदा तद्५ भावेन वर्तमानतादिप्रसङ्गः । युक्तियाधितश्चायं तत्कार्यासिद्धेरिति व्यययोगः समयान्तराद्यवस्थानलक्षणस्य च तत्सत्त्वस्वभावस्य Referrer eatत्पादः । सर्वथा सत्त्वे प्रागपि तद्भावात् तदा सद्भावविरोधः । अस्ति चयाम्, समयान्तराद्यवस्थानयोगादिति भावाधारौ चैतौ वान्ध्येयादावसम्भवादनयोः । तत्स्वभाववैकल्ये ( खो० व्या० )
एव तेषां परमाणूनां सम्पूर्णसत्ताया एव । किमित्याह - परिणामित्वात् सैव तेन तेनाकारेण । परिणामित्वे च सति किमित्याह-तत्तत्कालाद्यवस्थानलक्षणस्य तत्सत्स्वस्वभावस्य- प्रस्तुताणुसत्त्वस्वभावस्य कथञ्चित् - केनचित् प्रकारेण व्यययोगात् । इत्थं चैतदङ्गीकर्तव्यमित्याह - अन्यथा - एवमनभ्युपगमे तत्ताद१५ वस्थ्या पत्त्या तस्य तत्सत्त्वस्वभावस्य तादवस्थ्यं तत्तादवस्थ्यं तस्यापत्तिस्तया हेतुभूतया । किमित्याह- सदा तद्भावेन तत्सत्वस्वभावभावेन । किमित्याह- वर्तमानतादिप्रसङ्गः । आकालं तदेककालादिसम्बन्धिस्वभावाप्रच्युत्येति भावनीयम्। युक्तिबाधितश्चायं - वर्तमानतादिप्रसङ्गः, तत्कार्यासिद्धेः - वर्तमानतादिकार्यासिद्धेः । इति - एवं व्ययँयोगस्तत्सत्त्वस्वभावस्य समयान्तराद्यवस्थानलक्षणस्य च २० 'आदि' शब्दात् क्षेत्रान्तरादिग्रहः, तत्सत्त्वस्वभावस्य - अधिकृताणुसत्त्वस्वभावस्य । किमित्याह- कथञ्चित् - केनचित् प्रकारेण असत एवोत्पादः । सर्वथा - एकान्तेन सत्ये । किमित्याह - प्रागपि तद्भावात् समयान्तरावस्थानलक्षणतत्स्वभावभावात् । किमित्याह - तदा - समयान्तरादौ तद्भः वविशेधः - समयान्तराद्यवस्थानादिलक्षणतत्स्वभावविरोधः । अस्ति चार्य-भावः । कुत इत्याह- समयान्तराद्यवस्थान१५ योगादिति । भावाधारी चैती-व्ययोत्पादौ । कुत इत्याह- बान्ध्येयादावसभवादनयोः - व्ययोत्पादयोः। तत्खभाववैकल्ये च यथोदितव्ययोत्पादस्वभाववैकल्ये च सति । कस्येत्याह - तत्सत्त्वस्य - अधिकृताणुसत्त्वस्य तत्सत्त्वस्वभावसत्त्वस्य ( विवरणम् )
(२७) तत्सवस्वभावसत्त्वस्येति । तयोः - उत्पादव्यययोः सत्त्वं- स्वरूपं तत्सत्वम्, ३० तत्सत्त्वं स्वभावो यस्य तत् तत्सत्त्वस्वभावम्, तच्च तत् सत्त्वं च-- -धौव्य लक्षणोऽंशः
૨૮
[ पद्ममः
१ ' तत्तत्काळ दावथानव्ययोत्रादयोः योगादिति, भावाभारी चैत' इति पाठे सति पाठप्रपातः । २ 'सेवते नातना (?) कारणेन' इति ङ - पाठः । ३ ' तत्तत्सत्त्व०' इति ङ-पाठः । ४ 'मानादिप्रसङ्गः ' इति क-पाठः । '५ 'भाव प्रच्युत्वेति' इति ङ-पाठः । ६ 'योगस्तत्सत्त्वभावस्य' इति ङ-पाठः ।