________________
अधिकारः] खोपलव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) एवं च 'इन्द्रियाग्राह्यसमूहत्वेन तदग्रहणतो व्यवहारायोगात्! इति प्रत्युक्तम् , उक्तवत् तेषां तथाखभावतया सर्वथेन्द्रियाग्राह्यत्वासिद्धेः, तेषामेव तथा भवनादिति । आह-एवमन्यूनानति-५ रिक्ततत्सत्ताभावे न "उत्पादव्ययध्रौव्ययुक्तं मत्" इति न्याय्यं वचः, तत्र तत्त्वत उत्पादव्ययाभावात्, सत्तालेशस्यापि व्ययायोगात्, असतश्चोत्पादानुपपत्तेः; अन्यथा यो व्येति तस्य निरन्वयो व्ययः, यश्चोत्पद्यते तस्याप्यसत एवोत्पादः, या च तत्रापरा सत्ता तस्याः कूटस्थनित्यतैवेति कथमुत्पादव्ययध्रौव्ययुक्तं सदिति ?|" अत्रोच्यते-अन्याय्यमिदं वचः, तत्सम्पूर्णसत्तायाएव परिणामित्वात्
(खो० व्या०) परिणामः । कुत इत्याह-अतिप्रसङ्गात्, चेतनादिपरिणामापत्तेरित्यर्थः । इतिएवं बादरभावसिद्धिरणूनाम् ॥
एवं चेत्यादि । एवं च कृत्वा इन्द्रियाग्राह्यसमूहत्वेन हेतुना तदग्रहणतः, १५ प्रक्रमादण्वग्रहणेन, व्यवहारायोगादिति-एवं तत् पूर्वपक्षोक्तं प्रत्युक्तमिति । कथमित्याह-उक्तवत् तेषां-परमाणूनां तथास्वभावतया कारणेन । किमित्याह-सर्वथा-एकान्तेन इन्द्रियाग्राह्यत्वासिद्धेः कारणात् । असिद्धिश्च तेषामेव-अणूनां तथाभवनात्-इन्द्रियग्राह्यतया भवनादिति । आह परःएवम्-उक्तनीत्या अन्यूनानतिरिक्ततत्सत्ताभावे-अधिकृताणुसत्ताभावे सति । २० किमित्याह-न "उत्पादव्ययध्रौव्ययुक्तं सत्" इति एतन्याय्यं वच इति । कथमन्याय्यमित्याह-तत्र-अन्यूनातिरिक्ततत्सत्ताभावे तत्त्वतः-परमार्थेन । किमित्याह-उत्पादव्ययाभावात् । अभावश्च सत्तालेशस्यापि कस्यचिद् व्ययायोगाद भावाभावाभवनेन । तथा असतश्च-सत्तालेशस्य कस्यचिदुत्पादानुपपत्तेः अभावभाव(?)भावेन । इत्थं चैतदङ्गीकर्त्तव्यमित्याह-अन्यथेत्यादि १२५ अन्यथा-एवमनभ्युपगमे यो व्येति-विनश्यति भावः तस्य निरन्वयो व्ययःविनाशः, यश्चोत्पद्यते तस्याप्यसत एवोत्पादः, या च तत्रापरा सत्ताया नोत्पद्यते न विनश्यति तस्या अमुना प्रकारेण कूटस्थनित्यतैव-एकान्तेन इतिएवं कथं "उत्पादव्ययध्रौव्ययुक्तं सत्” इति । एतदाशयाह-अत्रोच्यते-अन्याय्यमिदं वचो यदुक्तं भवता । कुत इत्याह-तत्सम्पूर्णसत्ताया३. • १ द्रष्टव्यं चतुर्थ पृष्ठम् । २ विनश्यति' इत्यधिकः क-पाठः। ३ 'कुटस्थितिनित्यतैतनेति' इति ग-पाठः। ४ 'दित्यतत्पूर्व०' इति -पाठः। ५'अभावसावाभानेन' इति --पाठः। .